SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ ६४२ व्याश्रयमहाकाव्ये [ भीमराजः] ९२. तत्र तेषु चमूपेषु मध्ये केपि चमूंपाः सपदि दृषद्भ्यः । "गम्यस्याप्ये" [२.२.६२.] इति चतुर्थी । शिला आहर्तु शिश्वियुजग्मुः । केपि च तरुभ्यो वृक्षानाहतुं शुशुवुः । किभूताः सन्तः । यथा हनुमान् शोशवीति स्म रामेणाब्धिसेतुवन्धे दृषदाद्याहरणायेतस्ततो भ्रमणात्कुटिलं गतस्तथा त्वं कि न शेश्वयीपीत्यन्योन्योत्साहनाय वदन्तः ॥ शुशुवु. शिश्वियुः । शोशवीति शैश्वयीपि । इत्यत्र “वा परोक्षायडि" [९० ] इति वा स्वृत् ॥ पिप्यिरे प्रतिरवा गगनान्तः पेप्यिताचलदरीषु च पीनाः । पीनवत्परशुपाणिनिकृत्तोत्प्यानपादपपरापतनोत्थाः॥ ९३ ॥ ९३. प्रतिरवाः प्रतिशब्दा गगनान्तः पिप्यिरे वृद्धि गतास्तथा पेप्यिता अतिवृद्धा या अचलदोद्रिगुहास्तासु च पीना बहूभूताः । किंभूताः । पीनवन्तः स्थूला: परशवः पाणावेषां तैनिकृत्तानां छिन्नानामुत्प्यानानामतिस्थूलानां पादपानां यत्परापतनं परावृत्त्या निपतनं तस्मादुत्तिष्ठन्ति ये ते तथा ॥ पिपियरे । अन "प्यायः पीः" [९१] इति पीः ॥ दीर्घनिर्देशो यङ्लुवर्थः । पयित॥ पीनाः । पीनवत् । इत्यत्र "कयो"[९२] इत्यादिना पीः ॥ अनुपसर्गस्येति किम् । उत्प्यान ॥ १ सी कृत्योत्पान'. - १ वी मूपा सौ. २ डी शेश्चियी'. ३ डी शेश्चियी . ४ ईन्तः पेप्यि ५ डीई बहुभू'. ६ वी प्यितः ॥. ७ सी पीना ।. डी पीन ।।
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy