SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ [हे. ४.१ ८३] अष्टमः सर्गः। ६३१ विव्यधुस्तटमहीरपवेवित्यंहिपांश्च विविधुर्यत आपः । वेवयीति नु नभः ककुभो वेवीयते नु य उर्मिकराग्रः॥१८॥ ८८. यतो यस्मिन्वह आद्य[द्यादि ?]त्वात्तस् । आपस्तटमहीविव्यधुरभ्रंशयन्नित्यर्थः । तथा व्यचेर्यड्लुपि वेविच्यादित्याशास्यमानः तिकि वेविक्तिर्नाम कश्चिन्नरोपगतोह्रिपाणामद्भिरुन्मूल्यमानत्वान्नष्टो वेविक्ति. र्येभ्यस्ते यह्रिपा वृक्षास्तांश्च विविधुरुन्मूलितवत्यः । अनेनास्य जलातिपूर्णतोक्ता । अत एव यो वह उदुच्छ्रिता ऊर्मय एव कराप्राणि पाण्यप्राणि शुण्डाग्राणि वा यस्य स तथा सन्नभो वेवयीति नु भृशमाच्छादयतीव तथा ककुभो दिशो वेवीयते नु ॥ सेसिमीषि किमहो परितः सेसिम्यते जलमदेन यथाब्दः। संस्यमन्विति दृशा किल वाव्यत्तं नृपः प्रववृतेथ नियन्तुम् ।।८९॥ ८९. अथ नृपो भीमस्तं वह नियन्तुं सेतुना बन्धुं प्रववृते प्रारेभे । कीक्सन् । अहो वह जलमदेन जलबाहुल्यदर्पण यथान्दो मेघः सेसिम्यतेत्यर्थं गर्जति तथा त्वं किमिति जलमदेन सेसिमीषि । अत्यर्थं शब्दायसे । एतेन त्वज्जलमदोपनेष्यत इत्युक्तम् । इत्येवं प्रकारेण दशा संस्यमन्नु । यात्राविघ्नोयमिति कोपा कुट्या साटोपं विलोकनाद्वावद्यमान इव तथा दृशा तं किल वाव्यत् । किलेवार्थे । कोपाललाटारोपितदृष्टित्वेन वहस्याखिलस्याप्याक्रामकत्वादृशा वहमत्यर्थ संवृण्वन्निव लघूकुर्वन्निवेत्यर्थः ।। ___ १ सी ति तु न. २ सी ते तुय १ सीन्यात्या . २ ए °गतोहि'. ३ सी डी क्तिएभ्य'. ४ वी विन्यधु'. ५ ए वी सी डी वन्तोने'. ६ वी उदच्छ्रि. ७ वी पाण्याप्रा. ८ई 'ति भृ सी ति तु भृ. ९ सी ते तु . १० ए सेतुबद्धप्र. ११ई दृक् । '.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy