SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ ५६० व्याश्रयमहाकाव्य [दुर्लभराज.] योयूयः । भन्न "नोतः" [१६] इति न यडो लुप् ॥ भचोरयत् । नाटयत् । इत्यत्र "चुरादिभ्यो णिच्” [ १७ ] इति णिच् ॥ नियोजयत्या वेत्रिण्याः संयोजन्ती करे करम् । नाम्ना दुर्लभदेव्यागान्महेन्द्रस्य स्वसा ततः ॥ ९२ ॥ ९२. ततोनन्तरं नाम्ना दुर्लभदेवी महेन्द्रस्य स्वसा स्वयंवरमण्डपमागात् । किंभूता सती । नियोजयन्त्या राजन्यचक्रदर्शनार्थं प्रेरयन्या वेत्रिण्याः प्रतीहार्याः करे करं संयोजन्ती संबधंन्ती हस्तिका ददतीत्यर्थः॥ विलम्ब नासहन्भूपा नान्योदन्तमसाहयन् । सदो भावयमानां तां वीक्ष्य क्षोभं बभूविरे ॥ ९३ ॥ ९३. सदः सभां भावयमानां प्राप्नुवतीं तां दुर्लभदेवीं वीक्ष्य नृपाः क्षोभं बभूविरे प्रापुः । अत एव विलम्ब नासहन् । तत्प्राप्त्यौत्सुक्याकालक्षेपं न चक्षमुः । तथा तत्रैव गतचित्तत्वादन्योदन्तं दुर्लभदेव्या अन्यस्याः कामिन्या वार्तामपि नासाहयन्न सेहिरे॥ स्त्रीषु रत्नं बभूवैषा भवन्ती तादृशीं श्रियम् । जीवयन्ती यतोनॉ किंकरत्वमकारयत् ॥ ९४ ॥ ९४. एषा दुर्लभदेवी स्त्रीषु नारीजातिमध्ये रत्नमुत्कृष्टा बभूव । यतो यस्माद्धेतोरेषानङ्गं किकरत्वं स्वादेशकारितामकारयत् । कोह. १ ए नन्त किं. १डी ति य. २ ए योज स. बी योजयन्ती. ३ सी डी भी है। ४ए म विभू.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy