SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ [ है. ३.४.७.] सप्तमः सर्गः। अजुगुप्सत । अतितिक्षत । इत्यत्र "गुप्तिजः" [५] इत्यादिना सन् । विचिकित्सुः । अचिकिरस्थे । अत्र "कित.." [६] इत्यादिना सन् ॥ शीशांसति । दीदांसमानाम् । मीमांसमानाम् । घीभरसमानाम् । अत्र "शान्दान्' [७] इत्यादिना सन् दीर्घश्चैषां द्विवचने सति पूर्वकारस्य ।। महीयमाना नारीषु कण्डूयन्ती मुधा श्रवः । लालस्यमाना तमनु दोर्मूलं काप्यदर्शयत् ।। ८२ ॥ ८२. कापि कामिनी तं दुर्लभमनुलक्ष्यीकृत्य मुधा निरर्थक श्रवः कण कण्डूयन्ती सती दोर्मूलं कक्षाधस्तनप्रदेशं संक्षोभना(गा?)) दुर्लभमेवादर्शयत् । कीदृक् । लालस्यमानात्यर्थ सविलासा तथा नारीपु मध्ये महीयमाना सौन्दर्योत्कर्षेण पूजाहा। भृशं पुनः पुनः कापि लसन्ती भृशमैक्षत । भृशं चकासतं जाजागीयमाणस्मरा नृपम् ॥ ८३ ॥ ८३. कापि कामिनी भृशं चकासंतं शोभमानं नृपं दुर्लभं भृशमैक्षत । कीहक्सती । जाजाग्रीयमाणस्मरात्यर्थमभीक्ष्णं वा जागरूककामात एव भृशमत्यर्थं लसन्ती विलसन्ती दुर्लभक्षोभना(णा')य गमनादिविशेष कुर्वतीत्यर्थः । तथा पुनः पुनर्लसन्ती च ॥ काचिदंसात्पतदादरिद्यमाणोदरांशुकम् । नावाव्यताटाव्यमानारार्ययाणैस्तदार्दिता ॥ ८४ ॥ ८४. तदा प्रवेशकाले काचिदादरियमाणोदरौतिकशोदरी कामिन्यसात्स्कन्धात्पतदंशुकं नावाव्यत भृशमभीक्ष्णं वा नारक्षत् । कीहक्सवी। १ वी सी डी ई क्षास्त. २ सी डी त त शो'. ३ सी डी जागुरू'. ४ई °ले दाद. ५सी डी रा इति.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy