SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ ५४० व्याश्रयमहाकाव्ये [पल्लभसजा घदमानः सुहृजने । तत्वेपु वदमानः। परमात्मन्यवदिष्ट । कार्ये विवदमानान्। उपावदत मत्रिणः । उपावदत सेनान्यम् । अत्र "दीप्तिज्ञान" [४] इत्यादिना दीप्ल्यादिषु क्रमेणात्मने ॥ सैन्यैः प्रवदमानीं धिगित्याशु शुकैरिव । सेनानीरुल्लल थाटवीं संप्रवदच्छुकाम् ॥ ४९ ॥ ४९. अथ सैन्यैः सह सेनानीराश्वटवीमुल्ललऽ । किंभूतैः । शोकेन विलापित्वाद् हा धिगिति प्रवदमानैः । कैरिव शुकैरिव । सहोपमेयम् । सैन्यशोकाकन्दश्रवणेन शोकाक्रान्तत्वाद् हा धिगिति प्रवदमानैः शुकैः सहेत्यर्थः । अत एवं किंभूतामटवीं संप्रवदच्छुकां संभूयविलपच्छुकाम् । एतेन वल्लभविरहे पक्षिणामपि शोक उक्तः ॥ सैन्यैः प्रवदमानैः । इत्यत्र "व्यक्त" [७९] इत्यादिनात्मने ॥ व्यकवाचामिति किम् । संप्रवदच्छुकाम् ॥ शुकसारिकादीनामपि व्यवाक्स्वास्सहोता. विच्छन्त्यन्ये । प्रवदमानैः शुकैः ॥ विभावदन्त नामात्या अन्ये विप्रावदन्न वा । मिथोनुवदमानास्तु सेनान्योन्ववदन्वचः ॥५०॥ ५०. वल्लभेनोपसान्वितत्वादुपालब्धत्वाच्चामात्या न विप्रावदन्त मिथो वचो निषेधेन युगपद्विरुद्धं नोचुरित्यर्थः । एवं न वा न चान्ये नृपसामन्तादयो विप्रावदन् । तुर्विशेषे । किं तु सेनान्यो दण्डनेतुर्वचोमात्या अन्ये चान्ववदन् सेनान्या पूर्वमुक्ते पश्चादवदन् । प्रमाणीचक्रुरित्यर्थः । किंभूताः सन्तः । मिथोनुवदमाना मिथ एकसांमत्येन यथैके वदन्ति तथापरे वर्दन्त एकैः पूर्वमुक्तेपरे पश्चाद्वदन्तो वेत्यर्थः ॥ - १ एकाक्रा . २ सी डी व च किं. ३ ए दीनां व्य. ४ ई 'कत्वात्स. ५ ए वान्ये. ६ सी डी दन्ति । ए.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy