SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [वल्लभराजः] । हत्यत्र कुन्तलानुपतिष्ठते मात्रैस्तमुपातिष्ठन्त । इत्यत्र “देवार्चा' [६०] इत्यादिना देवार्चादिपु क्रमेणात्मने । दातृशोपतस्थिरे यानुपास्थुः । अत्र “वा लिप्सायाम्" [६१] इति वात्मने ॥ मुक्तावृत्तिष्ठमानास्ते पुरो यावद्वितस्थिरे । उदस्थादासनात्तावत्सोवतस्थे च साञ्जलिः ॥ ३७॥ ३७. मुक्तौ मोक्षार्थमुत्तिष्ठमाना धर्मानुष्ठानेन चेष्टमानास्ते मार्गाश्रमतापसाः पुरो वल्लभस्याग्रतो यावद्वितस्थिरे विशिष्टेन मुनिजनोचितेन संस्थानेन स्थितास्तावत्स वल्लभो विनीतत्वेनासनादुदस्थोत्साजलिश्च योजितकरयुगश्चावतस्थेवस्थितः ॥ मा प्रतिष्ठस्व संतिष्ठवाय तिष्ठामहे हि वः । त्वयि नस्तिष्ठते प्रीतिः केप्यूचुरिति तं नृपाः ॥ ३८॥ ३८. केपि भक्ता नृपास्तं वल्लभमूचुः । कथमित्याह । मा प्रतिष्ठख मा प्रस्थानं कारिद्य संतिष्ठस्वात्रैव तिष्ठ । हि यस्मादद्य वयं वो युष्मभ्यं तिष्ठामहे स्वाभिप्रायप्रकाशनेनात्मान रोचयामः । ननु किमिति यूयमस्मभ्यं तिष्ठध्व इत्याशङ्कयाहुः । यस्मान्नोस्माकं प्रीतिरन्तरङ्गलेहस्त्वयि तिष्ठते त्वया प्रमाणभूतेन मानितास्मत्प्रीतिः प्रमाणमित्यर्थ इति ॥ मुक्तावुत्तिष्ठमानाः । अत्र "उदः" [६२] इत्यादिनात्मने ॥ अनूह इति किम् । आसनार्दुदस्थात् ॥ संतिष्ठस्व । वितस्थिरे । प्रतिष्ठस्व । अवतस्थे । अन्न "संविप्रावात्" [१३] इत्यात्मने ॥ १ डी ते। . २ ई. दिषु. ३ ए रे वशि. ४ई स्यात्प्रा. ५ सी डी ः ॥. ६ ए बी सी डी एफ दुत्तस्थौ ॥ स.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy