SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ [है० ३.३.३६.] सप्तमः सर्गः। ५२५ भननुक्रीढमानाय । आक्रीडमानाः । परिक्रीडमानैः । अत्र “अन्वाइरेः" [३४] इत्यात्मने ॥ अशपन्तासै । अत्र "शपः" [३५] इत्यादिनात्मने ॥ अस्य नाथन्ते । अत्र "आशिषि नाथः” [३६] इत्यात्मने ॥ सह तेनाग्रजो भुङ्क्ते स्माभुनक्सोपि तद्वचः। पितुस्तावनुजहाते नयमानौ नयागमे ॥१९॥ १९. तेन दुर्लभेन सहाग्रजो वल्लभो भुङ्क्ते स्मात्ति स्म । सोपि दुर्लभोपि तद्वचोग्रजवचनमभुनक् पालितवान् । एवेनैतयोरत्यन्तं स्नेहानुबन्ध उक्तः । वथा नयागमे नीतिशास्त्रे नयमानौ नयागमे संध्यादीन्सद्गुणान्युक्तिभिः स्थिरीकृत्यान्योन्यस्य सहाध्यायिराजकुमाराणां वा बुद्धिं प्रापयन्तावित्यर्थः । तौ कुमारौ पितुरनुजहाते पितुर्गुणविषयं क्रियाविषयं वा सादृश्यमविकलं शीलितवन्तौ पितुर्गमनमविच्छेदेन शीलितवन्तौ वा पितृवर्जग्मतुर्वा पितृवच्छीलयामासतुवेत्यर्थः ॥ जज्ञे विनेष्यमाणोनागराजो नृपस्य तुक् । मातोदानयमाना यं नयते स्म सुधारसे ॥२०॥ २०. शुभलक्षणसूचितौदार्यधार्मिकत्वादिगुणत्वादर्थान्धनानि विनेष्यमाणो धर्माद्यर्थ तीर्थादिषु विनियोक्ष्यमाणो नागराजो नाम नृपस्य तुक् तृतीयः पुत्रो जज्ञे । यं नागराजमुदानयमानोत्सङ्ग आरोपणायोक्षिपन्ती सती माता सुधारसे नयते स्म सुधारसविषयं प्रमेयमाखादं निश्चिनोति स्म । अमृतपानसुखमनुवभूवेति तात्पर्यम् ।। - १ सीमभून. २ सी डी नैव स. ३ एन्ध रकः । ४ बी जरमुतु सी जन्मतु, ५ डी जो न.६ ए तीयपु.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy