SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ [है० ३.३.४] सप्तमः सर्गः। ५१७ पञ्चमी मूर्तिोमनाख्या सप्तमी मूर्ती रामचन्द्राख्याभूत्तयोस्तुल्योभूदित्यर्थः । अतश्चास्य चामुण्डराजस्य क्रियोतिपत्तिः कार्यविनाश: श्वस्तन्यप्येष्यदिनभाविन्यप्युपलक्षणत्वाचिरौलभाविन्यपीत्यर्थः । आस्तां तावदद्यभाविनीत्यपेरर्थः । कचित्कस्मिन्नपि स्थाने नाशति न संभाविता । अर्थात्सर्वजनेन ॥ आशिषास्य भविष्यन्ती जनता पितरौ सुराः । अस्यति स्मास्यतः स्मास्यन्ति स्म चाजसमापदम् ॥ ५ ॥ ५. आशिषा जय जीव नन्देत्यादिमङ्गलशंसनेहास्य राज्ञो भविध्येन्ती भाविनीमापदमजस्रं सदा जनता जनाघोस्यति स्म क्षिप्तवती। पितरौ च मातापितरौ चास्यतः स्म । सुराश्चास्यन्ति स्म । एतेन न्यायित्वविनीतत्वधार्मिकत्वादिगुणैर्जनतापितृसुरा अनेनानन्दिता इत्युक्तम् ॥ किं न पश्यसि पश्यामि पश्यावः पश्यथो नु किम् । पश्यामः पश्यथेत्यासन्द्वारेस्य क्ष्माभुजां गिरः ॥ ६॥ ६. अस्य राज्ञो द्वारे सिंहद्वारे क्ष्माभुजां गिरोभवन् । कथमित्याह । किंशब्दौ नुश्चाक्षमागर्भे प्रश्नत्रये । अहो आमाभुक् त्वमर्थान्ममोपरिपतनादि कुर्वन्कि न पश्यसि मां नालोकयसि । एवं पृष्टः स प्रत्याह । पश्याम्यवलोकयन्नस्मि । तथा हे क्ष्माभुजौ युवा नु किं न पश्यथः । नबत्रापि योज्य: । तावपि प्रत्याहतुः । पश्यावः । तथा १ई आसिषा. २ सी ध्यन्ती ज'. ३ ए गिxxx रोम'. १६ चामु. २ सी यार्य'. ३ ए सी डी शः स्वस्त'. ४ ए ई काले मा०.५ सी यन्ती भा.६ सीडी रे मा . ७ सी किमश. ८ सी डी शो नु. ९ ए हो क्षाभु.१० ए सि मा ना. ११ डी वो किं. १२ वी इगध ।न, - -
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy