________________
[है• ३.२.१५५.]
षष्ठः सर्गः।
५१३
ललमानजलविन्दुस्वच्छमुक्ताकलापेन तथा श्रीयुक्तोवतंस आपीडो यस्य तेन । "शेषाद्वा" [७. ३. १७५] इति कच् । यद्वा । श्रियो राज्यलक्ष्म्याः शोभाहेतुत्वादवतंसक इव यस्तेनात एव जीवनस्य जलस्य मूतः पुटबन्धो जीमूत इन्द्रस्तस्येव डम्बरो लक्ष्म्याडम्वरो यस्यास्ति तेन । कीहक्सन । छत्रेणोपलक्षितः । किंभूतेन । मौक्तिकानां वतंसैः शिरोमालाभिः कृत्वा पृषोदरेण जलविन्दुवृन्दाध्यासितमध्येनेव तथा जीमूतडम्बरवता नीलत्वादिन्द्रचापानुकारखचितानेकवर्णमणित्वाच्छायाहेतुत्वाच्च मेघाडम्बरवतात ऎव यवतंसकेन राज्यलक्ष्म्याः शेखरतुल्येन । वसन्ततिलका छन्दः ।।
अथ प्राची गत्वा द्रुहिणतनयां श्रीस्थलपुरे वपुः स्व हुत्वाग्नौ मुपिहितपिनद्धापरयशाः । ययौ राजेः सूनुर्दिवमनपिनद्धापिहितधीग्रहीतुं स्वर्गादप्यवनविधिनावक्रयमिव ॥ १०७॥ १०७. अथ पुत्रस्य राज्याभिषेकानन्तरं विजितसर्वशत्रुत्वात्सुपिहितं पट्याद्यावरणेनेवात्यन्तमाच्छादितं सुपिहितमप्यानिवारितप्रसरं कदाचित्कथमपि पिधानमतिक्रम्य प्रकटं स्यादित्याह । पिनद्धं च । लोहशृङ्खलयेव निगडितं चापरयश: शत्रुकीर्तिर्येन स राजे: सूनुर्मूलराजोवनविधिना प्रभूभूय रक्षाकरणेन स्वर्गादप्यवक्रय भाटकं ग्रहीतुमिव दिवं स्वर्ग ययौ । किं कृत्वा । श्रीस्थलपुरे सिद्धपुरापरनानि श्रीस्थलाख्ये नगरे पूर्वदिगभिमुखं प्रवमानत्वात्प्राची द्रुहिणतनयां ब्रह्मपुत्रीं सरस्वती सर्वतीर्थोत्तमत्वेनात्मसाधनार्थ गत्वा तथानौ
१ ए सी न् । छात्रे. २ ए सीते। मौ. ३ ए सी डी एत य. ४ ए सी अत्र पु. ५ वी क गृही. ६ ए सी लास् न'.