SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ द्याश्रयमहाकाव्ये षष्ठः सर्गः। अहम् ॥ यथावदाराधयतस्त्रिवर्ग चामुण्डराजोस्य सुतोथ जज्ञे । परस्परां वाकमला च तेजःसौम्ये च नूनं मिषती श्रिते यम् ॥१॥ १. अथानन्तरमस्य मूलराजस्य यथावद्यथोचियेन परस्परानाबाभया । खवेलायामित्यर्थः । त्रिवर्ग धर्मार्थकामानाराधयत आसेवमानस्य सतश्चामुण्डराजः सुतो जज्ञ उत्पेदे । यं चामुण्डराजं वाक् सरस्वती च कमला च लक्ष्मीस्तेजः प्रतापः सोम इवाहादकत्वात्सोमः कान्तस्तद्भावः सौम्यं कान्तत्वम् । द्वन्द्व । ते च धिते । नूनं शङ्के। परस्पराम् । स्पर्धमानः स कृष्णम् । मेरं स्पर्धिष्णुनेवान्यो धृतो नाको हिमाद्रिणा। इत्यादाविव प्राप्येत्यध्याहारेण परस्परस्य व्याप्यत्वात्परस्परं कर्म परस्परेण सह वा परस्परार्थं वा परस्परस्मात्सकाशाद् गम्ययवपेक्षया "गम्ययपः" [२.२.७४] इति पञ्चम्यां परस्परमाश्रित्य वा परस्परस्य संबन्धिनो वा परस्परस्मिन्वा मिषती स्पर्धमाने । ये हि मिथो मिषतस्ते मिथोमिभवेच्छयोत्कृष्टस्वामिनं येते। वाकमले तेजःसौम्ये च मिथो विरुद्ध अमुं चाभिवे इत्येवमाशङ्का । सर्गेस्मिन्नुपजातिच्छन्दः । १बी ती क. २ ए सी डी मानस. ३ ए सी डी ४ टीमईप. ५वी मलते'. लापर'.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy