SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ४३६ व्याश्रयमहाकाव्ये [मूलराजः] विश्वप्रिय प्रियमृषावादस्य त्वनिरासतः । स्याज्जैमिनिकडारस्य तुल्यः कडारजैमिनिः ॥ १३५ ॥ १३५. हे विश्वप्रिय प्रिया विष्णुमूर्त्या पालनीयत्वाद्भवकष्टाब्धेनिस्तार्यत्वाचाभीष्टा विश्वे समस्तजना यस्य । अनेन शंभोः सर्वमान्यतोक्ता। त्वनिगसतो नास्ति सर्वज्ञः प्रमाणपञ्चकातीतत्वात्खरविषाणवदित्यादिकुवादस्वभावमननाप्रियमृषावादस्य जैमिनिकडारस्य कडारः पिगलो दासो वा सर्वज्ञाभावमननेन सर्वजनानां क्षेप्यत्वात्कडार इव कडारो यो जैमिनिर्मीमांसकस्तस्य तुल्यः कडारजैमिनि: कॉरमी मांसक एव स्यान्नान्यः । त्वनिरासं दुरात्मा मीमांसक एवाह नान्य इत्यर्थः । तथा च मीमांसकमताभिप्रायेणोक्तम् ।। अपौरुषेयो वेदश्च प्रामाण्यं षट्माणतः । सर्वज्ञाभाव इत्येव मीमांसकमतं मतम् ॥ १॥ वृद्धमन्वादिभिस्तुत्यं त्वां स्तुयान्मनुवृद्धगीः । योर्थधर्मप्रियः स स्याद्धर्मार्थाभ्यां न वञ्चिनः ॥ १३६ ॥ १३६. वृद्धश्चिरन्तनो यो मनुरापिस्तद्वद्भक्तिसारतार्थसारतादि. गुणोपेता गीर्वाणी यस्य स तथा सन्यः पुमांस्त्वां स्तुयात् । यतोर्थधौं प्रियावभिलपणीयौ यस्य सः । अर्थधर्माभिलाषणेत्यर्थः । किंभूतं त्वाम् । वृद्धमन्वादिभिश्चिरन्तनमर्नुऋष्याबैगदिपदाड्यासाद्यैस्तुत्यम् । स धर्मार्थाभ्यां वञ्चितो वियुक्त इत्यर्थः । न स्यात्तस्य धर्मार्थों भवत एवेत्यर्थः ।। - १ ए सी डी तुल्य क. २ ए सी डी स्तुल्य त्वा. १ सीवाभी'. २ वी मस्ता ज. ३ ए सी डी डारः. ४ सी दास्यो वा. ५ ए त्वाफटा'. सी डी त्वाकमार". ६ ए सी 'टारः मी'. ७ सी गोकान् । ८ ए सी नुरुभ्या. ९ ए सी डी रतुल्यम् ।
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy