SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ ४३२ ब्याश्रयमहाकाव्ये [मूलराजः] इत्याह । यतः कृत उग्रो मारणात्मको रिपोर्लक्षस्य निग्रहो येन तस्मिन् ।। ग्राहारि सोमुचत्कृत्ताङ्गुलीकं भिक्षितः पतिम् । तस्य पाणिगृहीतीभिर्वालहीतपाणिभिः ॥ १२९॥ १२९. स मूलराजो ग्राहारिममुचत् । कीदृशं सन्तम् । कृत्ता छिन्नाङ्गुल्यर्थात्कनिष्टा येन यद्वाङ्गुल्यां कृत्तं येन तं स्ववेलायत्तं कृत्वेत्यर्थः । यतो वालैः कर्तृभिर्गृहीतपाणिभिरात्तहस्ताभिः सतीभिर्मूलराजस्य कृपातिरेकोत्पादनाय बालकान्हस्तेषु गृहीत्वेत्यर्थः । तस्य ग्राहारेः पाणिगृहीतीभिर्भार्याभिः पति भर्तारं भिक्षितोस्मभ्यं पतिभिक्षां देहीति याचितः ॥ ततः प्रभृति सौराष्ट्रः स्त्रीवेपो जातजन्मभिः । अजन्मजातैश्चोपात्तः प्राह राजिभुवो यशः ॥ १३०॥ १३०. ततः प्रभृति तस्मान्मोक्षदिनादारभ्य बीवेष आप्रपदीनशाटिकापरिधानकच्छादानाभावलक्षणो नारीवेषो राजिभुवो मूल. राजस्य यर्शः सौराष्ट्रजयोत्था कीर्तिं प्राह । संप्रत्यपि ज्ञापयतीत्यर्थः । कीदृक् । सौराष्ट्र: सुराष्ट्रादेशोद्भवैलॊकैरुपात्तो वयं मूलराजस्य पुरः स्त्रीकल्पा इति ज्ञापनाय गृहीतः । कीदृशैः । जातजन्मभिः । जन्मशब्दोन जन्मप्रभृतिजीवितकालवाची । जातं वाल्ययौवनवार्धक्यावस्थात्रयोपभोगेन कृतकृत्यत्वान्निष्पन्नं परिपूर्णीभूतं जन्म जन्मवारो येपां तैरतिवृद्धरित्यर्थः । तथा न जातं वार्धक्यानुपभोगेनाकृतार्थत्वादपरिपूर्णीभूतं जन्म येषां तैश्च वालैतरुणैश्चेत्यर्थः ॥ १ ए सी कृत्वा छिौं. २ सीतही. ३ सी तिरोको'. ४ वी गिZही. ५ ए सी डी हीभि. ६ वी श. नुरा. ७ ए सी वैलोकै. ८ सी "जम्मश. ९ डी °न्मवा.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy