________________
४२४ व्याश्रयमहाकाव्ये
[मूलराजः] अश्ववत्वम् अश्ववडवो । पूर्वापरं पूर्वापरे । अधरोचरम् अधरोसरयोः । इत्यत्र "अश्ववडव" [१३] इत्यादिना वैकार्थता ॥ अश्ववडवेति निर्देशादेवेतरेतरयोगे इस्वस्वं निपात्यते ॥
पशु । गोमहिषेण गोमहिपौ ॥ व्यञ्जन । दधिधृतम् दधिधृते । अत्र "पशु" [१३२] इत्यादिना द्वन्द्व एकार्थो वा ॥
कुशकाशर्मसो पापः कुशकाशा इमे नृपाः।
सारो धवाश्वकर्ण नु त्वं मुमोचयिषनमुम् ॥ ११२ ॥ ११२. पापोसौ प्राहारिः । कुशकाशं कुशा दर्भाः काशा इषीकाख्यास्तृणभेदा द्वन्द्व । कुशकाशमिवासार इत्यर्थः । तथेमे पाहारिसत्का नृपाः कुशकाशाः । ग्राहारिमाचनेशक्तत्वादसारा इत्यर्थः । एवं च यदि पैरममुं ग्राहारि मुमोचयिषन्मोचयितुमिच्छंस्त्वमेव धवाश्वकर्ण नु । धवाश्वकर्णाख्यवृक्षभेदा इव सारो बलिष्ठः । काकुव्याख्ययोपहासगर्भवाक्यार्थत्वादयमत्र तात्पर्यार्थः । न हि पाहारिस्तन्नृपाश्चासमर्था आसन्परं पाहारिः सर्वेषु नृपेषु पश्यत्सु मया बद्धोतस्त्वमेकोमुं मुमोचयिषुः कियन्मात्र इति ।।
युष्यसे चेदसौ दोस्त्वां तिलमाषान्नु पेक्ष्यति । भला धवाश्वकर्णान्कि तिलमाषेनिलः स्खलेत् ॥ ११३ ॥ ११३. चेद्यदि युध्यसे त्वं तदासौ मामकीनो दोस्तिलमापानु तिलमाषानिवासारत्वाल्लीलया त्वां पेक्ष्यति संचूर्णयिष्यति । दृष्टान्त
१ सी शम'. २ ए सी “मसो पा.
ममुमा ।
१ ए सी डी "ते । गो'. २ ए सी शनिवा'. ३ ए सी ४सी हि गृमा.