SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ३९२ व्याश्रयमहाकाव्ये [ मूलराजः] सोध्यास्तोत्तलपादोग्रहस्तोपात्तवरत्रया। गजं पादतलन्यञ्चद्भुवं हस्ताग्रमुद्गरम् ।। ५४ ॥ ५४. स ग्राहारिरारोहवशादुदूर्ध्वस्तलपादः पादतलं यस्य स तथा सन्नग्रहस्तेन हस्ताग्रेणोपात्ता गृहीता या वरत्रा कक्षा तया गजमध्यास्तारोह । किंभूतं सन्तम् । हस्ताने शुण्डाग्रे मुद्गरो यस्य तम् । तथा पादतलेन न्यञ्चन्ती भारातिरेकानमन्ती भूर्यस्य तम् ॥ अधजरतीयम् जरत्यर्ध । इत्यत्र "जरत्यादिभिः" [५५] इति वा तत्पुरुषः॥ द्वितीयसेना । तृतीयारिसेनया । तुर्यकुप्यम् । अग्रहस्त । उत्तलपादः । इत्यत्र "द्विग्नि" [५६] इत्यादिना वा तत्पुरुषः । पक्षे । भूद्वितीयम् । श्रीतृतीयम् । मापतुर्य । हस्तान । पादतल ॥ वर्षजाताहिभीमपूरूयब्दजातहरेः समः। सैन्यं स स्वयमुद्युक्तोस्थापयत्सामिविद्रुतम् ॥ ५५ ॥ ५५. स पाहारिः सामिविद्रुतम|पप्लुतं सैन्यमस्थापयत्समधीरयत्। कीदृक्सन् । वर्ष जातस्य वर्षजातो योहिः सर्पस्तद्वदीमे कोपाटोपाद्रौद्रे भ्रवौ यस्य सः । वर्षप्रमाणोहिः प्रौढत्वादतिभीम: स्यात् । तथा । त्रयोदा वर्षाणि जातस्य त्र्यव्दजातो यो हरिः सिंहस्तस्य समः शौर्येण तुल्योत एव स्वयमुद्युक्तो रणायोर्चतः ।। . १सी साध्या. १बी कक्ष्या त.२ ए ग्रे शृण्डा. सी ग्रे मु. ३ सी प्रत्या. ४ बी गो हि महि: ५वी मः सौ. ६सी पत व.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy