SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २६२ व्याश्रयमहाकाव्ये [मूलराजः गौः पयस्क क्षरन्सस्य स्वःकल्पायां पुरो भुवि । पयस्काम्यदधःकाम्यदवाःकाम्यत्सताभवत् ॥ ९० ॥ ९०. अस्य राज्ञो गच्छतः पुरः स्व:कल्पायां क्षीरतरुच्छायाहरिततृणशुचित्वादिगुणरम्यत्वेन स्वर्गतुल्यायां भुवि गौर्धेनुरभूत् । कीदृशी सती । पयस्काम्यन् क्षीरकण्ठत्वेन दुग्धाभिलापुकोत एवाध:काम्यन् दुग्धपानायाधस्तनप्रदेशस्येच्छुरवाःकाम्यन्नवप्रसूतत्वाजेलस्याप्यनिच्छुः सुतो वत्सो यस्याः सात एवापत्यस्नेहेन पयस्कमल्पं पयो दुग्धं भरन्ती सवन्ती । गन्तुकस्य हीदृग्गौः शकुनमतल्लिका ।। यशस्कृते । श्रेयस्कामः । सहस्कंसः । पयस्कुम्भम् । अयस्कुशावान् । पयस्कर्णी । ऊर्जस्पात्रम् । इत्यत्र "अतःकृकमि" [५] इत्यादिना सः ॥ अत इवि किम् । गी:कारः ॥ भनव्ययस्येति किम् । पुनःकारम् ॥ रोधस्पाशम् । यशस्कल्पः । पयस्कम् । इत्यत्र "प्रत्यये" [६] इति सः ॥ अनव्ययस्येत्येव : स्वःकल्पायाम् ॥ पयस्काम्यत् । इत्यत्र "रो: काम्ये" [७] इति सः ॥ रोरिति किम् । अवाःकाम्यत् । अनव्ययस्येत्येव । अधःकाम्यत् ॥ ज्योतिष्काम्यत्सु धृःकाम्यन् धनुप्कल्पध्रुवं स्त्रियम् । ससर्पिप्कामगीप्पाशां निष्कलङ्कां स ऐक्षत ।। ९१ ॥ ९१. स राजा ज्योतिर्ज्ञानमिच्छन्ति ये तेषु ज्योतिष्काम्यत्सु धूःकाम्यन् धुरमिच्छन् शकुननिमित्तादिज्ञेषु मव्ये धुरीणः सन् त्रियमैक्षत । कीदृशीम् । धनुष्कल्पे कुटिलत्वेन चापतुल्ये भ्रुवौ यस्यास्ताम् । १ सी पाशनि. १वी परस्य स्त. २ डीजल तस्या. ३५ सी डी स्येव. ४ थी °ध्येपु .
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy