SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २५८ व्याश्रयमहाकाव्ये [ मूलराजः] रभद्रपदाभिर्वा चन्द्रयुक्ताभिर्युक्ते काले याम्यां दिशं दक्षिणां यान्तु । म्रियन्तामित्यर्थः । प्रोष्ठपदासु हि दक्षिणदिशि याने पुनरागमनं न स्यान् । यदुक्तम् ॥ धनिष्ठारेवतीमध्ये चन्द्रे चरति यो व्रजेत् । दक्षिणस्यां कदाप्यस्य पुनरागमनं न हि ॥ ततश्च जय त्वं तथा यूयमेधध्वं लक्ष्म्या त्वं वर्धस्वेति ।। युवामच्यौं गृहा लक्ष्म्या यूयमस्य भुजाविति । कल्याणतिलकाकृष्टा दारा जगुरिवालिनः ॥ ८३॥ ८३. अस्य राज्ञो भुजौ कल्याणहेतुत्वात्कल्याणं कल्याणाय वा पुरोधसा कृतं यत्तिलकं तेनाकृष्टा: सौरभेण दूरादानीता अलिनो भृगस्य दाग भृङ्गी जगुरिवं गायन्ति स्मेव । कथमित्याह । हे भुजौ यूयं युवां लक्ष्म्या विजयादिश्रियो गृहा आश्रयावत एव युवामच्यौँ स्थ इति । भुजयोर्गानाशङ्का च तयोरेव भविष्यज्जयहेतुत्वेन यात्रारम्भकाले गानाईत्वात् । या अपि दारा आकृष्टितिलकाकृष्टा भवन्ति तास्तस्याक्रप्टुर्गानादिकं कुर्वन्तीत्युक्तिः ॥ गोदौ ग्रामं खलतिकं वनानि देशमश्मकान् । भोक्तारोन्येपि भूपास्तं नमस्कृत्याग्रतोभवन् ॥ ८४ ॥ ८४. स्पष्टः ॥ १ए लक्ष्मा यू. २ बी मस्मका'. ३ सी डी ।। ८४ ॥ पुर. १ एफ 'मिषु'. २ ए दिशि द. ३ ए लक्ष्या त्व. ४ सी डी ल्याण क. ५ एफ भृगयो ज.६ सी व कडी व रमे. ७ सी लक्ष्मा वि. ८ सीडी "त् । यथा अ.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy