SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ [मूलराजः] २२६ व्यश्रियमहाकाव्ये स्मति सर्वक्रियासु योज्यम् । श्लाघास्थानशपथापहवान् कुर्वाणं बैणं कर्तृ आत्मानं ज्ञाप्यं जानन्तं पतिं प्रयोजयति स्मेत्यर्थः । पत्य इत्यत्र जातावेकवचनम् । इदमुक्तं स्यात् । पतीनपराधकत्वेन चाटुकशतैरनुनयतोप्यवगणय्य मानावष्टम्भेनावस्थिता अपि शारदज्योत्स्नोदये कामोद्रेकाद्विगलितमानाः सत्यो नार्यः। श्लाघया वक्रोक्तिभङ्गीभिः स्वप्रशंसया स्थित्यानुरागादिसूचकस्थानविशेषेण शपथेन सपत्न्युद्भावितस्य मिथ्यारूपस्य व्यलीकस्य निरासेन सपन्युद्भावितं पतिभि: संभाव्यमानं व्यलीकं यद्यस्मासु कुत्राप्यस्ति तदा वयं मात्रादिशरीरं स्पृशाम इति प्रत्यायकवाक्येन वा निह्नवेन च प्राग्मानवशेन कृतस्यावज्ञाद्यपराधस्यापेलापेन चात्यन्तिकानुरागभक्तिरिरंसुतादिगुणोपेतं ज्ञाप्यमात्मानं पतीन् ज्ञापितवत्यः ॥ तापाय लोहिनी तडित् । इत्यत्र "उत्पातेन ज्ञाप्ये" [५९] इति चतुर्थी ।। पत्ये श्लाघते । हुते । तिष्ठते । शपते । इत्यत्र "श्लाघगुस्था' [६०] इत्या दिना चतुर्थी ॥ पाकाय प्रयता जग्मुर्नीवारेभ्यस्तपस्विनः । चतुर्मासोपवासेपि नेयुग्राम पुराय वा ॥ २७ ॥ २७. पाकाय प्रयताः पक्तुमुद्यताः सन्तस्तपस्विनस्तापसा नीवारेभ्यो वनवीहीनाहत ययुः । एतेनैषां स्वयंपाकित्वमसंग्रहश्वोक्ते । शरदि हि नीवारा बाहुल्येन स्युः । परं चतुर्ष मासेषु भवो "वर्षाका १ ए वी पश्चिनः ।. २ ए युग्राम. १ ए सु युज्यते श्शा. २ सी मुक्ते स्या'. ३ सी रदाज्यो'. ४ सी डी "वित. ५ एफ पलपे'. ६ बी पश्विन. ७सी श्वोक्ते. श. डी एफ 'श्रोतः श.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy