SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ [है० २.२.४१.] तृतीयः सर्गः। सरोभिः सह । पिगृ बन्धने । अवसीयन्ते स्मारसितानि संवद्धान्यजान्यनु । अत्रानुहंतो । ततः सरोभिः सह संबद्धरजैतुभि. । यदिति क्रियाविशेषणम् । यत्तितच्छदा राजहंसा एयुरागता. । अर्थाच्छरदि । वासु मेघभयान्मानसं गताः शरंदं हि तत आगच्छन्ति । तेन हेतुना ज्ञायते । ऋतवोनु शरदमुप गङ्गामिवापगा. । अत्रानूपो हीनाथौं । यथा गङ्गाया अन्या नद्यो हीनास्तथा शरदोन्य ऋतवः शिशिराद्या हीनातेपु सिवच्छदागमनामावान् । यो हि सितच्छदतुल्यैर्महापुरुपैराश्रीयते तस्मादन्ये हीनाः स्यु.॥ अन्जान्यन्वेयुः । सरोववसितानि । इत्यग्न "हेतुसहायनुना" [३८] इति द्वितीया ॥ अनु शरदम् । टप गद्गाम् । इत्यत्र "उत्कृप्टेनूपेन" [३९] इति द्वितीया॥ शालीन्पकान्सप्रमोदं रक्षन्त्यो गोपिका दिनम् । क्रोशं व्यस्तारयन् गीती ति गोदोहमप्ययुः ॥ ५ ॥ ५. गोपिकाः गालीनां रक्षिकाः स्त्रियो दिनं सकलदिवसं व्याप्य क्रोशं क्रोगप्रमाणभूमि व्याप्य गीतीर्गानानि व्यस्तारयन्न पुनर्गोदोहमपि यावता कालेन गौर्नुह्यते तावन्तमपि कालमति खेदमयुगताः । यतः पक्कान्निष्पन्नाव् शालीन् कलमादीन् सप्रमोद सहर्ष यथा स्यादेवं रक्षन्त्यः शुकादिभ्यः । सुपक्कशालिदर्शनोवृतप्रमोदपारवश्येन सकलं दिनमुःस्वरेण गायन्त्योपि क्षणमपि खेदं न गता इत्यर्थः । शरदि हि शालेयः पच्यन्ते ॥ शालीन्पकान् रक्षन्त्यः । इत्पत्र "कर्मणि" [४०] इति द्वितीया ॥ संप्रमोदं रक्षन्त्यः । इत्यत्र "क्रियाविशेषणात्" [1] इति द्वितीया । १ वी रदं व. २ डी रदि हि. ३ एफ राश्रिय'. ४ ए स्माही.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy