SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ [है० २.२.२१.] द्वितीयः सर्गः । १९९ कीर्तः प्रदीव्यन्ति कुलं प्रदीव्यन्ति । इत्यत्र "उपसर्गाडिवः" [१५] इति वा कर्म ॥ उपसर्गादिति किम् । आरमोजतेर्तव्यन्ति ॥ अन "न" [१८] इत्यनेन नित्य कर्मसंज्ञा न ॥ कृटं दीव्यन्ति । चटुना दीव्यन्ति । इत्यत्र “करणं च" [१९] इति दीव्यतेः करणं कर्म करणं च । तेन कर्मत्वे द्वितीया करणत्वे च तृतीया ॥ चेतोधिशयीत । पापमधिष्टिताः । लोभमध्यासिताः । इत्यत्र "अधेः शी" [२०] इत्यादिना कर्म ॥ समीपमुपोपितः । सदोनूपितवान् । मौलिमधिवसेत् । सभामावसताम् । इत्यत्र "उपान्" [२१] इत्यादिना कर्म । अथासत्यस्य दोषान्सत्यस्य च गुणानुक्त्वा सत्यमेव वक्तुमुपक्रमते॥ तर्थशास्त्रेभिनिविष्टबुद्धेवदाम्यमिथ्याभिनिविश्य पार्श्वम् । गोदोहमीशे त्रुटिमप्युदास्ते य आस्यते द्राग्नरकं हि तेन ॥१०॥ १००. यस्मात्सत्यासत्ये पूर्वोक्तगुणदोषोपेते तत्तस्माद्धेतोरर्थशास्त्रे नीतिशास्त्रेभिनिविष्टवुद्धेः क्षुण्णमतेः सतस्ते तव पार्श्वमभिनिविश्याश्रित्यामिथ्या सत्यमहं वदामि । वर्तमानकालनिर्देशोधुनैव वदामीति भणनस्यातिशैघ्यज्ञापनार्थः । शीघ्रवदने हेतुमाह । हि यस्मादीशे स्वामिनि स्वामिकार्यविषय इत्यर्थः ॥ गोदोहं यावता कालेन गौर्दुह्यते तावन्तं कालमित्यर्थः । त्रुटिमपि। प्रयत्नेन विमुक्तस्य यवस्य पततोम्बरात् । द्वियवं यावदध्वानं यः कालः स त्रुटिर्मतः ॥ इत्यतिसूक्ष्मकालमपि यो भृत्य उदास्त उपेक्षते तेन द्राग नरकमास्यते स्थीयते स्वामिनो द्रोहस्येवोपेक्षाया अपि महापापहेतुत्वान् ।। सी हस्येवो. २ सी डी पापे हे.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy