________________
[है० २.२.४.]
द्वितीयः सर्गः।
१८९
८४. स ग्राहारिवलौघैः कृत्वातिबाहुल्यादिलां महीं खेदं कष्टमजीगमत्यापितवान् । अत एव वलौघैः फणीन्द्रं शेषाहिं भाररुजं भारपीडामवोधयत् । तथा बलौघेररातीकालपुरी संयमन्याख्यां यमपुरीमद्र्शयत् व्यापादितवानित्यर्थः । अत एव पिशाचांस्तपिशितमभोजयत् । एतेन दिग्विजय उक्तः ॥
आश्रावयन्निग्रहगर्भवाचं वन्दीकृतान्दण्डमवीवदत्सः । संस्थापयन्वैरिशिरःसु पादं तेजोभिरुङ्गः कमपीपचन्न ॥ ८५॥
८५. स माहारिहठापहृता नरी बन्दा अवन्दा बन्दाः कृता बन्दीकृतास्तानिग्रहर्गर्भा । यद्येतावन्न दास्यथ तदाहं युष्मान्मारयिष्यामीति विनाशप्रधाना । या वाक् तामाश्रावयन् शृण्वतः प्रयुञ्जानः सन् वन्दीकृतानेव दण्डमवीवद्भाणितानगीकारितवानित्यर्थः । एतेन म्लेच्छाचारोस्योक्तः । तथा वैरिशिरःसु पादं संस्थापयन शत्रूनतिन्यकुर्वनित्यर्थः । स उप्रैः प्रचण्डैस्तेजोभिः प्रतापैः कर्तृभिः के नापीपचत्तं नादीदहत् ॥ स उज्जयन्ते चमरीमंगव्येष्वानाययन्नादयते श्वबन्दैः। आफन्दयन्खादयति प्रभासतीर्थाश्रमणीरपि चित्रकायैः॥८६॥ ८६. स पाहारिरुजयन्ते रैवतकाद्रौ मृगज्येष्वाखेटकेषु श्ववृन्दैः कुकुरौघैः कर्तृभिश्चमरी!विशेषानानाययन्सन् श्ववृन्दैरेव कर्तृभिश्चमरीरादयते खादयति । तथा चित्रकायैर्दीपिभिः कर्तृभिः प्रभासतीर्थे य
-
१सी आश्रव'.
१ली स कारप्रा. २ एफ 'राम'. ३ एफ तास्ता'. ४ डी गर्भी य. ५ डी दणि'. ६ ए सी डी वानि. ७ एफ दस्था. ८ बी न् सन् श. ९ सी डी मिः ता. १० एफ कुकुरौं'.