SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ १८६ द्याश्रयमहाकाव्ये [मूलराजः] तथा गामेवाधर्म पापमनुशास्ति शिक्षयति पापे व्यापारयतीत्यर्थः । तथा मुनीन साम मधुरवाक्यं नाह निर्भर्त्सयतीत्यर्थः । तथा मुनीनेव वृत्तिं भिक्षाचर्योञ्छादिकां जीविका रुणद्धि निवारयति । तथा मुनीन् सत्पथं न्यायमार्ग न पृच्छति न कथापयतीत्यर्थः । तथा मुनीनथै द्रव्यं याचते ॥ रत्नानि रत्नाकरमुच्चिनोति निधीन् कुवेरं विजिगीषतेसौ । प्राणान्विपायुधि भिक्ष्यते च खभर्तभावं बत नीयते च ॥ ८१॥ ८१. असौ ग्राहारी रत्नाकरं सागरं रत्नान्युञ्चिनोति वियोजयतीत्यर्थः । एतेन कोशसंपदुक्तिः । तथा कुबेरं धनदं निधीन निधानानि विजिगीषते । एतेन संपूर्णेपि कोशे तद्द्धौ निरुद्यमित्वनिरास उक्तः । तथासौ युधि विपक्ष: प्राणान् भिक्ष्यते चास्मान् जीवतो मुश्चेति जीवितव्यं याच्यते च । एतेन पराक्रमित्वोक्तिः । तथा बतेति खेदे। वि. परेवासौ स्वभर्तृभावमात्मस्वामितां नीयते चात्मनः स्वामी क्रियव इत्यर्थः । एतेन प्रभुसंपदुक्तिः । एतेन सर्वेणास्य दुःसाध्यत्वोक्तिः ॥ जहेन्यदारान् स्वपुरी दशास्यो गां कार्तवीर्यो यतिनं मुमोष । भ्रूणानकर्षभगिनीं च कंसोग्रहीत्किमेतानसकावनीतीः ॥ ८२॥ ८२. दशास्यो रावणोन्यदारान् रामभार्या सीता स्वपुरी लश जहे निनाय । तथा कार्तवीर्यः सहस्रार्जुनो यतिनं जमदग्निं गां कामधेनुं मुमोपापजहार । तथा कंस: कंसाख्यो दैत्यो भगिनी देवकी भ्रूणान् गर्भानकर्षदेवकोपार्थाद्वधार्थ भ्रूणान् गृहीतवानित्यर्थः । . १ सी डी नीने. २ एफ 'न् विभक्ष्य'. ३ ए सी डी ते । . ४सा डी मन स्वा. ५एफ भुत्वस'. ६ एफ वेण प्रकारेणा. ७ एसीस 'ताल'. ८ सी ख्यो म,
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy