________________
१३८
खाश्रयमहाकाव्ये
[मूलराजः]
प्रियस्त्वदयन् त्वत्समीपेद्याहं वत्स्यामीति त्वामाचक्षाण: समध्यस्मन्मयि मत्समीप आसीदुवास । तथा यो मापयन् त्वत्समीपेद्याहं वत्स्यामीति मामाचक्षाणः सन्नधित्वत्त्वयि त्वत्समीप आसीदवास्मिन् प्रिये विषये कस्तवानुतापः पश्चात्तापः । अयमर्थः । यः शठत्वाद्वासविषये त्वामुक्त्वा मत्समीपेवसन्मां चोक्त्वा त्वत्समीपवसत्तस्मिन् शठस्वभावे प्रिये सैषास्य वल्लभा नाहमिति किमित्यनुतप्यसे द्वयोरपि समानापमानकारित्वात् । यद्येवं तर्हि किं कार्यमित्याह । यत्तदोनियाभिसंबन्धाद्यदिति गम्यम् । यदहं वदामि तत्पूर्वोक्तं भर्तुः शठस्वभावत्वमेवं निश्चिनु तथेत्यङ्गीकुर्विति ॥ निशि त्वकं मामहकं तां त्वां युक्तौ नु नावां विधिजृम्भितानि । प्रमाणमत्रातिवयं तथातियूयं रथाङ्गाविति क्रूजतो नु ॥ १९॥
१९. रथाङ्गो चक्रवाकमिथुनमिति न्विदमिव कुजतो वदतः । यथा निशि रात्रौ निशामाहात्म्यात् कुत्सिताल्पज्ञाता वा त्वं त्वकं मां मामाचचक्षे मामवोचस्तथा निशि कुत्सितोल्पोज्ञातोवाहमहक त्वां त्वामाचचक्षे त्वाभप्रवम् । आवां नु । नुः पुनरर्थे । त्वं चाहं च पुनर्न युक्ती न मिलितौ । यद्यपि निश्यावां संयोगाय प्रेम्णान्योन्यं शब्दायितवन्तो तथापि न सयुक्तावित्यर्थः । नन्वत्र को हेतुरित्याह । अत्रावयोरयोगे विधिजम्भितानि दैवविलसितानि प्रमाण हेतवो यतोतिवयं तथातियूय देवस्य प्रतिमल्लाभावान्मां त्वां चातिक्रान्तानीति ॥
युष्मभ्यम् । अस्मभ्यम् । अणिगन्तपक्षे इष्टयुष्मभ्यम् । प्रियास्मभ्यम् । इत्यत्र “शेषे लुक्" [८] इति दस्य लुक् ॥ १बी था व यु.
-
'एफ प्रियवि. २ एफ मथ यः. ६ वी किमन्य. ४ सी डी . स. ५ एफ गाया मा. ६ एफ मा. ७ एफ क वा. ८ डी मव. एफ 'मनुवं. ९सी अणि'.