SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १०६ . व्याश्रयमहाकाव्ये [मूलराजः] प्रभुणा सहिताया अपि दैत्याजिभीर्वा दानवरणाद्भीरोः। एतेन सर्वोत्कृष्टैः शोर्यादिगुणैर्बुद्ध्या च शकाजव्या अपि दैत्या अनेन जिता इत्युक्तम् ।। असिधेनोः कामधेन्वा जयाप्त्या समितौ ग्रहात् । नृपपतया महाबुद्धेरपि क्षोभमसौ व्यधात् ॥ १७४ ॥ १७४. असौ राजा समिती रणेसिधेनोः खड्गयष्टेहात् महत्यतिशयिता बुद्धिः संध्यादीनां यथौचित्येन व्यापारणगोचरा मतिर्यस्यास्तस्या अपि नृपपतयाः क्षोभं संत्रासं व्यधात् । ननु यद्यमुनासिधेनुर्गृहीता तत्कि नृपपतिर्महाबुद्धिरपि क्षुब्धेत्याह । यतो जयाप्त्यां विजयप्रापणे कामधन्वा अवश्यमेव विजयदान्या इत्यर्थः । अथ च यस्य जयाप्त्यां जयलाभविषये कामधेन्वा ग्रहोनुग्रहः प्रसादः स्यात्स तस्मात्प्रसादात्समिती सभायां महाबुद्धेरपि महाविदुषोपि क्षोभं करोति ॥ लम्वश्रुतेः स्निग्धदृष्ट्या अस्यातन्वां तनौ मुराः। जाताश्चर्या दिवः पृथ्व्यां पृथ्व्या दिवि च ते ययुः १७५ १७५. ते रूपवत्त्वेन सर्वत्र प्रसिद्धाः सुरा दिवः स्वर्गात्पृथ्व्यां ययुः । पृब्याच दिवि ययुः । यतो लम्बश्रुतेः स्कन्धविश्रान्तकर्णस्य स्निग्धघट्या अरूक्षेक्षणस्योपलक्षणत्वात्सुरूपसश्रीकसाझावयवस्यास्य राज्ञातन्वां विस्तीर्णायां समचतुरस्रसंस्थानायामित्यर्थः । तनौ देहविपय जाताश्चर्या अत्यद्भुतरूपश्रीकत्वादेतन्मूर्तिदर्शनाय देवा अपि गतागत चरित्यर्थः ।। फ जाता १ एफ नौ समामेति'. २ एफ ग्रहणात्. ३ सी डी संशय. समान. ५डी 'धवा य. ६ सी गोपरगांत्यू. ७ ए तुम. ४ एफ
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy