SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ है. १.४.२३.) प्रथमः सर्गः । १०३ मुनेरपि मुनेरस्य साधोः साधोरपि स्फुटम् । कीर्तये चारवे यत्नो जज्ञे बुद्ध्याः प्रकर्षतः ॥ १६७ ।। १६७. अस्य राज्ञो बुद्ध्याः प्रकर्पतश्चारवे निष्कलङ्कायै कीर्तये स्फुट प्रकटं यत्नोभूत् । यथा यथा लोके कीर्ति: स्यात् तथा तथावेतिष्टेत्यर्थः । बुद्धिप्रकर्षे हेतुगर्भ विशेषणद्वयमाह । मुनेरपि सकाशान्मुनेरत्यन्तं जितेन्द्रियस्येत्यर्थः । तथा साधोरपि शिष्टादपि सकाशात्साधोः । स्याद्विजितेन्द्रियस्य सदाचारस्य च नरस्य बुद्धिप्रकर्षः ।। कीर्तये । चारवे । मुनेः । साधोः । मुनेः । साधोः । इत्येषु “हित्यदिति" [२३] इत्येदोती ॥ अदितीति किम् । बुज्याः ॥ ते गुणा अमुना कीर्तिशुचिनात्मनि रोपिताः । शंभोः सख्यावपां पत्यौ योः फ्तौ च विधौ च ये ॥१६८ १६८. शंभोः सख्यो धनदेपां पत्यो वरुणे द्योः पतौ चेन्द्रे च विधौ चेन्दौ च ये गुणा औदार्यन्यायपरमैश्वर्यसौम्यत्वादयः सन्ति ते गुणा अमुना राज्ञात्मनि रोपिताः संस्थापिताः । अत एव कीर्तिशुचिना । महापुरुषगुणधीरणे हि निष्कलङ्कं यशः प्रसरति ।। बहुपत्यो भुवनानामसखौ रणकर्मणि । अस्मिन्नरपतौ सर्वान्को गुणान्वक्तुमीश्वरः ॥ १६९ ॥ १६९. भुवनानां बहुपत्यो भुवनानां पतिर्जगन्नाथो विष्णुस्तस्मिन्नीपदूने शौर्यादिगुणैर्विष्णुतुल्य इत्यर्थः । अत एव रणकर्मणि युद्धक्रियायां १ए ये च की. २ एफ् वतिष्ठतीत्य'. ३ वी गर्भवि . ४ एफ बुद्धेः प्र. ५ एक तो आदि. ६ एफ पनौ व. ७ एफ ताः । अ. ८ एफ धारिणो हि.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy