SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ [है. १.४.२०.] प्रथमः सर्गः । १०१ [10] इत्यादिना य-यास्यास्यामः ॥ आप इति पकारः किम् । कीलालपि । तत्संबन्धिविज्ञानादिह न भवति । बहुखट्वाय नराय । एतच्चोदाहरणं स्वयं शेयम् । इह तु भवति । बहुखदायां निविशे॥ हितः प्रजायै सर्वस्यै सर्वस्याः संपदः पदम् । ख्यातोसौ दिशि सर्वस्यां सर्वस्या नृपसंहतेः ॥ १६३ ।। १६३. अयं राजा सर्वस्या भूतभवद्भाविन्या नृपसंहतेः सकाशासर्वस्यां दिशि दशस्वपि दिक्षु ख्यातोभूत् । यतः सर्वस्यै प्रजायै हिवोनुकूल: । तथा सर्वस्या: सैन्यकोगादिकायाः संपदः पदं स्थानम् ।। सर्वम्य । सर्वस्याः । सर्वस्याः । सर्वस्याम् । इत्यत्र “सादेः" [१०] इत्यादिना टस्पूर्वा येयास्यास्यामः ॥ लीलया भुजयोर्लक्ष्मीवसुधे अस्य विभ्रतः । कुन्दावदातेरोदस्यौ यशोभिः पूरिते इमे ॥१६४ ॥ १६४. स्पष्टः। लीलया । भुजयोः । इत्यग्र "टोस्येत्" [१९] इत्येत् ॥ परिते । इमे । लक्ष्मीवसुधे विभ्रतः । इत्यत्र "औता" [२०] इत्येत् ॥ चारू चापेषुधी त्यक्त्वा समरेष्वस्य वैरिभिः । गुरू अवलताभीती शिश्रियाते अतिस्त्रियौ ।। १६५॥ १६५. अस्य राज्ञः समरेषु वैरिभिश्चारू रणालंकर्मीणौ चापेषुधी ध. नुस्तूणौ त्यक्त्वावलताभीती निःसत्वताभये शिश्रियाते आश्रिते। कीदृशे। १ सी डी °रः । की. २ सी वन्धवि. ३ एफ र्वस्या । स. ४ सी डी निःस्वस्व.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy