SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ [है० १ ३.२६ ] प्रथमः सर्गः । वान्धव साधो शिष्ट ये त्वया पूर्व वार्तया श्रुतास्त इम ईश्वरी आव्याः । तथा येषां फलान्यमृतरसस्वादूनि त्वमास्वादयो ये त्वया श्रुतपूर्वाश्च त इम आरामा उद्यानानि । तथा यं त्वं यशसा दृष्टपूर्वी सोसाववनीपतिर्भूपो वर्तते । अत्र प्रदेश ईक्षस्वालोकयार्थीदीश्वरादीनेवेति ॥ ययितोस्मायिदं देहि ययितोस्मायिदं पुनः । उदारायीश्वरायाहुरत्रेति स्वनियोगिनः ॥ ७८॥ ७८. अत्र पुर उदारायीश्वरा आझ्याः स्वनियोगिनः स्वभाण्डागारिकॉनित्येवंप्रकारेणाहुः । यथा । अहो नियोगिन् यो याचकजन इतोस्मिन् विवक्षिते पूर्वादिदिग्विभागेस्त्यस्मायिदं स्वर्णदुर्वर्णादि देहि । यः पुनरिनोस्मिन् विवक्षिते पश्चिमादिप्रदेशेस्त्यस्मायिदं पूर्वस्मादन्यदोजनवस्त्रादिकं देहीति ॥ बन्ध एते । दृशा अस्याः । क इव । स्तुत्या अन्योन्य । भो इन्द्र । भगो ईश । अघो अर्क । इत्यत्र "स्वरे वा" [२४] इति वययोर्वा लुक् ॥ पक्षे । विष्णवु । असावु । कयु । आदित्यायु । भोयादित्याः । भगोयिन्दो । अघोयिन्द्र । इत्यत्र "अस्पष्टा" [२५] इत्यादिना वययोः स्थाने नित्यमस्पष्टावीपत्स्पृष्टतरौ वयो । अवर्णात्वनुमि वा । बन्धवत्र । साधवीक्षस्व । असाववनीपतिः । आगन्ताविति । तयीश्वराः । तयारामाः। अस्मायिदम् अस्मायिदम् । ययितः ययितः । उदारायीश्वराः । ईश्वरायाहुः। अनुमीति किम् । उनि अस्पष्टावेव यथा स्यातां तथा चोदाहृतम् ॥ ययितः । उदारायीश्वराः । भोयादित्याः । भगोयिन्दो । अघोयिन्द्र । इत्यत्र "रोर्यः" [२६] इति रोः स्थाने यः ॥ अवर्णादिम्य इत्येव । आहुरत्र । १ सी डी राधा. । त°. २ वी सी डी त्वमस्वा. ३ सी डी था यत् स्व. एफ् था य. ४ बी सी डी कानाहुः. ५ ए °द पूर्वस्मायिद पू. ६ ए एफ वयो'. ७ एफ वयोः. ८ ए बी सी डी रौ यवौ । ९ ए उडि अ.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy