________________
२९२
परिशिलपर्वणि द्वादशः सर्गः ।
इतश्च पाटलीपुत्र धनो नाम महाधनः । श्रेष्ठौ गुणागणश्रेष्ठो बभूव भुवि विश्रुतः ॥२ ४ २॥ कन्या सुरूपा तस्याभूद्भिधानेन रुकिाणौ । सकिाणीव पुनरपि रूपान्तरसुपेयुषौ ॥२४॥ तस्य च श्रेष्टिनो थानशालायाममलाशयाः । अतिन्यो निवसन्ति स्म श्रीवास्थ महामुनेः ॥२४४॥ अतिन्यस्तास्तु वज्रस्य चक्रिरे गुणसंस्तवम् । स्वाध्यायावश्यकममो गुरूणां हि गुणस्तवः ॥२ ४५॥ तां तां वज्रस्य सौभाग्यकथामाकर्ण्य रुक्मिणौ । वज्रमेव पतौयन्ती प्रत्यजामौदिदं च सा ॥२४६॥ वज्रः स्याद्यदि मे भर्ता भोक्ष्ये भोगानहं तदा । अन्यथा तु कृतं भोगैः किं भोगैर्दयितं विना ॥२४॥ तस्था वरथितारश्च ये केचिदुपस्थिरे । मा प्रत्यषेधत्तान् सर्वान्मुखमोटनलौलया ॥२४॥ प्रवजिताश्च तां प्रोचुरयि मुग्धासि रुक्मिणि । वीतरागं प्रबजितं यद्दच त्वं वुवर्षमि ॥२४८॥ रुक्मिण्यभिदधे बजो यदि प्रबजितस्तदा । प्रव्रजिष्याम्यहमपि या गतिस्तस्य सैव मे ॥२५॥ इतश्च भगवान्वज्रः पाटलीपुत्रपत्तने । विहारेण ययौ धर्मदेशनावारिवारिदः ॥२५१॥ श्रुत्वा च वज्रमायान्त पाटलीपुत्रपार्थिवः । तत्काल मपरीवारो ऽभ्यगादृया गरिष्ठया ॥२५॥