________________
२४१
सम्पतिजन्मराज्यप्राप्ति । यौवराज्यममौ भुक्ला भविष्यति नृपो ऽप्यसौ । मनोरथेन पर्याप्तममुना साम्प्रतं मम ॥३३॥ कुणालायेत्यशोकौर्ददौ ग्रामं महर्द्दिकम् । तत्सापानकुमाराय ददावुब्जयिनौं पुनः ॥३४॥
कुपालस्य तु तं ग्राम भुञ्जानस्य परेद्यवि । अभूच्छरछियां पत्न्यां सूनुः मंपूर्णलक्षणः ॥३५॥ वर्धापिकाभ्यो दामोभ्यः कुमारः पारितोषिकम् । दत्त्वा महोत्सवं चक्रे पुत्रजन्मनिवन्धनम् ॥३६॥ मातर्मनोरथ लच्या वृथैवाद्य करोम्यहम् । इत्यागात्याटलीपुत्रं कुणालो राज्यलिप्मया ॥३७॥ ततो गौतविनोदेन खेच्छया स पुरे भ्रमन् । प्रेयान्वभूव लोकस्य गान्धर्वणतितम्बुरुः ॥३८॥ पाटलीपुत्रनगरे यत्र यत्र जगौ स तु ।। तत्र तत्र ययुः पौरा गौताकृष्टाः कुरङ्गवत् ॥३८॥ गान्धर्वणाद्भुतं श्रुत्वा तमन्ध इति पार्थिवः । पाहूय जवनौगुप्तं कृत्वा गातुं समादिशत् ॥४०॥ यथास्थानं मन्द्रमध्यतारैः षड्जादिभिः खरैः । पद्यप्रवन्धमौदृक्षं जगौ रागं स पोषयन् ॥ ११॥ प्रपौत्रश्चन्द्रगुप्तस्य विन्दुसारस्य नप्तकः । एषो ऽशोकश्रियः सूनुरन्धो मार्गति काकिणीम् ॥४२॥ पद्यप्रवन्धमन्धेन गौयमानं महीपतिः ।
श्रुत्वा पप्रच्छ को नाम बमस्याख्याहि गायन ॥४३॥ 16