________________
१८४
परिशिष्टयर्वणि सप्तमः सर्गः। कुलौना अपि लावण्यवती रूपवतारपि । दौयमाना अपि प्रार्थं नोपयेमे स कन्यकाः ॥२२॥ पुरे परिभ्रमन्नित्यं कल्पको बटुभिर्वृतः । पौराणां पूजनीयो ऽभूदिद्यान्सर्वत्र पूज्यते ॥२३॥
दतच कापिलेस्तस्य गमनागमनाध्वनि । पर्यवात्मौट्विजन्मकस्तस्य चैकाभवत् सुता ॥२४॥ तामत्यन्नं रूपवतोमप्युपायंस्त कोऽपि न । जलोदरेण तस्था हि रूपलक्ष्मौरदूष्यत ॥२५॥ पयोमतदृतिप्राय तस्यासुन्दमजायत । कन्यापि साभूगुरूवाक्षमा चंक्रमणे ऽपि हि ॥२६॥ मा कन्यकापि वल्लौव समये पुष्पवत्यभूत् । विषणा तत्तु तन्माता कथयामास तत्पितः ॥२०॥ ब्राक्षाणो ब्राह्मणौमूचे प्रिये दोषो ऽयमावयोः । नोवाहितेयं यत्कन्या कन्याप्येषा ह्यभूदवीः ॥२८॥ अस्याः पत्युरभूतत्वात्पुष्ये मोघत्वमागते । उपस्थितं भ्रूणहत्यापापं तदिदमावयोः ॥२६॥ किं कुर्मः कोऽपि वृणुते न जलोदरिणौमिमाम् । तहाक्छले पनिताथ देया कस्मैचिदप्यसौ ॥३०॥ वाक्छलेनापि न ग्राह्यः कोऽपि 'ना कल्पक विना । मत्यमन्धः स एवैकस्तदर्थं प्रयतामहे ॥३१॥ तेनापि कूपिकाखानि खग्टहाग्रे दिजन्मना । कल्पकागमवेलायां मा कन्यापि तत्र च ॥३२॥