SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ जम्बूखामिपूर्वभवः । कुम्भिभिनवमिन्दरारुणकुम्भैरनेकशः । सन्ध्याभविभ्रमकरैः परिवत्रे नृपधिपः ॥४३॥ गजघण्टाटणत्कारैः पूरयन्परितो ऽम्बरम् । प्राचालौदचलानाथस्तीर्थनाथमनूत्सुकः ॥ ४ ४ ॥ गजेन्द्रगर्जितैरश्वहेषित रथचौटातेः ।। मिल भिरम्वरतले शब्दो ऽम्वरगुणो ऽभवत् ॥ ४५ ॥ राज्ञो ऽव्यसैनिकौ च दावेकमेकाग्रमानसम् । एकांहिणा तस्थिवांसमेकमूलमिवां हिपम् ॥ ४६॥ सिद्धिक्षेत्रमिवाक्रष्टुमुद ञ्चितमुजद्दयम् । आदर्श दव सूर्य ऽपि निष्कम्यन्यस्तलोचनम् ॥४७॥ अभिन्नस्फोटकमिवातापाखेदविन्दुभिः । शान्तं रसं मूर्तमिव शान्तं ददृशतर्मुनिम् ॥४८॥ त्रिभिर्विशेषकम् । तयोरेकतरो ऽबादौदहो मुनिमतङ्गजः । वन्दनीयो महात्मायं य एवं तप्यते तपः ॥ ४६॥ कस्तिष्ठेदेकपादेन कः पश्येदर्कमण्डलम् । मुहर्तमप्येवमहो अहो दुष्करकारिता ॥ ५० ॥ वर्गो वा यदि वा मोक्षो नास्य दूरे महात्मनः । भूयमा तपमा किं किं नामाध्यमपि साध्यते ॥ ५१ ॥ व्याजहार द्वितीयो ऽपि न जानासि वयस्य किम् । राजा प्रसन्नचन्द्रो ऽयं न धर्मो ऽस्य मुधा तपः ॥५२॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy