SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ६८ वीरस्तुतिः । __ सं० टीका-से इति' । भूति शब्दो वृद्धौ, सम्पदि, ऐश्वर्ये, भसनि वर्तते, भूतिप्रज्ञस्तत्र प्रवृद्धज्ञानोऽनन्तज्ञानवानिति, तथा च भूतौ भसनि कर्मणां भस्मसात्करण इत्यर्थः कर्मक्षय इति यावत् प्रज्ञा यस्य स भूतिप्रज्ञः, तथा समग्रात्मैश्वर्योदयवान् च । “भूतिर्मस्मनि सम्पदि, इत्यमरः" । पुनस्तथा भूतिप्रज्ञो जगद्रक्षाविषयको भूतिप्रज्ञः । सर्वमंगलभूतिप्रज्ञ इत्यपि; । अनियतचारी अप्रतिबन्ध विहरमाणत्वात् , वायुरिवेतिभावः । ओघं संसार तरीतुं शीलमस्येति ओघतरः । उत्पादव्यययोः ओघं परम्परां तरतीति सः । "ओघो वेगे जलस्य च । वृन्दे परम्परायां च, द्रुतनृत्योपदेशयोरिति" मेदिनी! अथवा कर्मणामोघः समूहस्तं तरतीति सः। “ओघो वृन्देऽम्मसां रख इत्यमरः" । घीवुद्धिस्तया राजत इति धीरः, परिषहोपसर्गेऽक्षोभ्यो दृढो वेति धीरः । “धीरोमनीपी ज्ञः प्राज्ञ इत्यमरः ।" अनन्तत्वाचक्षुर्ज्ञानं तत्केवलज्ञानमेव तदेव चक्षुर्भूतः सोऽनन्तचक्षुरिति । यथार्कः सूर्योऽनुत्तरमुत्कृष्टं सर्वतोऽधिकं तपति न तस्मादधिकस्तापे कश्च. नास्ति, तथैव भगवानपि ज्ञानेन सर्वोत्कृष्टः । पुनः कथंभूतो हि सूर्यो, विशेषेण रोचनो दीप्तिमान् , प्रकाशकाधिकत्वात् , इन्द्रोऽसौ यथा तमोऽपनीय-दूरीकृत्य प्रकाशयति, एवमसावपि भगवानज्ञानतमोऽपहृत्य यथावस्थितपदार्थान्प्रकाशयतीत्यर्थः । विरोचन इत्यत्र खार्थेऽणि, वैरोचनः सूर्योऽथवाग्निरिव कर्मेन्धनं ज्वालयित्वा अकर्मकः परिशुद्धो जात इत्यपि । “विरोचनः प्रल्हादस्य तनयेऽऽग्निचन्द्रयोरिति मेदिनी ।" विरोचनो रविरेवेति बहुमतम् , यथा--"तरणि स्तपनो भानुघ्नः पूषार्यमा रविः, तिग्मः पतंगो द्युमणिर्मार्तण्डोऽर्को ग्रहाधिपः इनः सूर्यास्तमोवांतस्तिमिरारिर्विरोचनः । इति धनञ्जयना
SR No.010691
Book TitleVeerstuti
Original Sutra AuthorN/A
AuthorKshemchandra Shravak
PublisherMahavir Jain Sangh
Publication Year1939
Total Pages445
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy