SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता १०९ संस्कृतच्छाया योघेषु ज्ञातो यथा विश्वसेनः, पुष्पेषु वा यथाऽरविन्दमाहुः । क्षत्रियाणां श्रेष्ठो यथा दान्तवाक्यः, ऋषीणां श्रेष्ठस्तथा वर्द्धमानः ॥ २२॥ सं० टीका-योद्धेषु वीरपुरुषेषु भटेषु मध्ये ज्ञातो विदितो दृष्टान्तभूतो वा विश्वा-सेना हस्त्यश्वरथपदातिप्रभृतिचतुरंगबलसमेता (इति वृद्धा) यस्य स विश्वसेनश्वार्द्धचक्रवर्ती तथाऽसौ प्रधानः । "विष्वक्शेनो जनार्दन" इत्यमरः इत्यनेन विश्वसेनःशब्दः विष्वक्से नस्यापभ्रंशोऽपिभवितुमर्हतीत्याधुनीका मताः । पुष्पेषु च "स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुममित्यमरः।" तन्मध्ये यथाऽरविन्दं महोत्पलकमल “वा पुसि पद्मं नलिनमरविन्दं महोत्पलमित्यमरः।" प्रधानमाहुस्तथा क्षतात् रिपुकृतखण्डान्नष्टकर्मणस्त्रायन्त इति क्षत्रिया "राजन्नो, खत्तियो, खत्तं, मुद्धामिसित्त, बाहुजा इत्यमिधानप्पदीपिका ।" "राजा तु खत्तिये वुत्तो नरनाहे पभुम्हि च" इत्यभिधानप्पदीपिका।" राजानोऽपि तेषां मध्ये दान्ता उपशान्ता यस्य वाक्येनैव शत्रवस्स दान्तवाक्यश्चक्रवर्ती “सब्बभुम्मो चक्कवत्ती इत्यभिधानप्पदीपिका ।" यथा चासौ श्रेष्ठः प्रधानस्तदेवममुना प्रकारेण बहून् दृष्टान्तान् प्रशस्तान् अनुकूलान् प्रदाधुना भगवन्तं महावीरजिनवरेन्द्रं दार्शन्तिकं खनामग्राहमाह । तथैव ऋपीणां "तापसो तु इसी (रितो) इत्यभिधानप्पदीपिका ।" मध्ये श्रीमद्वर्धमानोऽन्तिमतीर्थकरो महावीरखामी श्रेष्ठः ॥ २२ ॥ अन्वयार्थ-[जह] जैसे [जोहेसु] योद्धाओं में [वीससेणे] कृष्ण-वासुदेव [णाए] प्रधान है [ वा] और [पुप्फेसु] फूलोंमें [ अरविंद ] सहस्रदलकमल सुगन्धित होता है तथा [जह ] जैसे [खत्तीण ] क्षत्रियोंमें [ दंतवक्के ] चक्रवर्ती [सेठे] प्रधान है [ तह ] उसी प्रकार [इसीण] ऋषियोंमें [वद्धमाणे ] भगवान् वर्धमान [ सेतु] प्रधान [आहु ] कहलाते थे ॥ २२ ॥
SR No.010691
Book TitleVeerstuti
Original Sutra AuthorN/A
AuthorKshemchandra Shravak
PublisherMahavir Jain Sangh
Publication Year1939
Total Pages445
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy