SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ प्रबोधचन्द्रोदये सव्याख्ये महामोहः -- (विचिन्त्य) शान्तः कोऽभ्युपायः । अथवा अलमुपायान्तरेण । क्रोधलोभावेवं तावदत्र पर्याप्तौ । कः कोऽत्र भोः। (प्रविश्य) दौवारिकः-आज्ञापयतु देवः । महामोहः--आहूयतां क्रोधो लोभश्च । दौवारिकः- यदाज्ञापयात देवः । (इति निष्क्रान्तः ।) दौवारिकः-- यदाज्ञापयति देवः । क्रोधः-श्रुतं मया शान्तिश्रद्धाविष्णुभक्तयो महाराजस्य प्रतिपक्षमाचरन्तीति । अहो मयि जीवति कथमासामात्मनिरपेक्षं चेष्टितम् । तथाहि - अन्धीकरोमि भुवनं बधिरीकरोमि धीरं सचेतनमचेतनतां नयामि । कृत्यं न पश्यति न येन हितं शृणोति धीमानधीतमपि न प्रतिसन्दधाति ॥२८॥ शान्तेः कोऽभ्युपाय इति । प्रतिपक्षादाक्रष्टुमिति शेषः । आत्मनिरपेक्षमिति । स्वस्वरूपं परित्यक्तुम् , अथवा मामनाहत्येत्यर्थः । मयि जीवतीत्यनेन दर्शितं स्वप्रभावमेव दर्शयति-तथाहीति । अन्धीकरोमि इतिकर्तव्यतामौढ्यं सम्पादयामि । भुवनमिति । भुवनस्थं जनम् । उच्चैरनुशिष्टमप्याचार्येन बाधिर्येण न शृणोति, तथा बधिरीकरोमि । धीरं धीमन्तम् । सचेतनं कार्याकार्यविषयविभागविवेचनक्षमम् । अन्धीकारफलमाह- कृत्यमिति । येनाहकारेण गृहीतो हितमिह १. 'न्तेर्निवारणे को', २. 'वात्र' ख. पाठः, -
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy