SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽहः । (दम्भो वटुं पश्यति) वटुः -- (ताम्रघटीं गृहीत्वा) ब्रह्मन् ! पादशौचं विधीयताम् । अहङ्कारः-भवतु । कोऽत्र विरोधः । एवं क्रियते (तथा कृत्वोपसर्पति ।) ___ (दम्भः दन्तान् पीडयित्वा वटुं पश्यति ।) वटुः-दूरे तावत् स्थीयताम् । वाताहताः प्रवेदकणिकाः प्रसरन्ति । अहङ्कारः- अहो, अपूर्वमिदं ब्राह्मण्यम् । वटुः-ब्रह्मन् ! एवमेतत् । तथाहि - अस्पृष्टचरणा ह्यस्य चूडामणिमरीचिभिः । नीराजयन्ति भूपालाः पादपीठान्तभूतलम् ॥ ८ ॥ अहङ्कारः- (स्वगतम्) अये, दम्भग्राह्योऽयं देशः । (प्रकाशम् भवतु । अस्मिन्नासने उपविशामि। (तथा कर्तुमिच्छति।) वटुः-मैवम् । नाराध्यपादानामन्यैरासनमाक्रम्यते । अहङ्कारः- आः पाप! अस्माभिरपि दक्षिणराढाप्रदेशप्रसिद्धविशुद्धिभिर्नाक्रमणीयमिदमासनम् । शृणु रे मूर्ख! नास्माकं जननी तथोज्ज्वलकुला सच्छ्रोत्रियाणां पुन यूंढा काचन कन्यका खलु मया तेनास्मि ताताधिकः । तयं न बहिष्कार्य इत्याराध्यपादनिरीक्षिताभिप्राय इति मन्वानो वटुराह-ब्रह्मन्! पादशौचमिति । दन्तान् पीडयित्वा कटकटायितान् कृत्वा । अपूर्वमिदं ब्राह्मण्यमिति छलेनापहासः कृतः। नीराजयन्ति अभिद्योतयन्ति ॥ ८॥ स्यालको भार्यासहोदरः। तस्य स्वस्त्रीयस्य दयिता मिथ्यामि शस्त
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy