________________
अथ द्वितीयोऽङ्कः।
(ततः प्रविशति दम्भः) दम्भः-आदिष्टोऽस्मि महाराजमहामोहेन । यथा-- वत्स ! दम्भ ! प्रतिज्ञातं सामात्येन विवेकेन प्रबोधोदयाय । प्रेषिताश्च तेषु तेषु तीर्थेषु शमदमादयः । स चायमस्माकमुपस्थितः कुलक्षयो भवद्भिरघहितैः प्रतिकर्तव्यः । तत्र पृ. थिव्यां परमं मुक्तिक्षेत्र वाराणसी नाम नगरी । तद् भवांस्तत्र गत्वा चतुर्णामप्याश्रमाणां निःश्रेयसविघ्नाय प्रयततामिति । तदिदानी वशीकृतभूयिष्ठा मया वाराणसी । संपादितश्च स्वामिनो यथानिर्दिष्ट आदेशः। तथाहि मदधिष्ठितैरिदानीम् -
"प्रत्यक्षनेतृचरितो बिन्दुव्याप्तिपुरस्कृतः ।
अको नानाप्रकारार्थः संविधानसमाश्रयः ॥" एवं तावन्महामोहंसारसङ्ग्रहसाराङ्कुररूपकन्दर्पदो दर्शितः । पूर्व प्रसनाच्च कोदाचित्कत्वेन विवेकस्यापि सद्भावप्रदर्शनेनाविद्याविलसितभेदप्रपञ्चस्य सम्यग्ज्ञाननिरस्यत्वं चातीताङ्कावसाने प्रदर्शितम् । सम्प्रति तु सकलपुरुषार्थसाधनतया विवेकाद्याश्रयणमेव श्रेयोर्थिभिः करणीयमिति दर्शयितुमत्यन्तोपहेयरूपमहामोहादिविस्फूर्जितमेव स्फोरयति - ततः प्रविशतीत्यादिना । तत्रापि किञ्चिदविवेकवशात् पुण्यक्रियासु प्रवर्तमानस्य पुण्यविरोधी दम्भ इति तत्प्रवेशमेवाह तावद् -दम्भ इत्यादिना । स पुनरात्मगतमेव मोहादेशमालोचितवानित्याह- आदिष्ट इति । तदेव दर्शयति- यथेति । अस्मन्मूलोन्मूलनाय किल प्रतिज्ञातं विवेकेनेत्युक्तम् । ननु न प्रतिज्ञामात्रात् साध्यसिद्धिरित्याशङ्कयाह - प्रेषितावेति । अवहितरि ति । कचित् कोणे कश्चिदपि शान्त्याद्यालिङ्गितो यथा न रमेत, तथा यतनीयमित्यर्थः । निःश्रेयसविघ्नाय यलो नाम तत्र तत्र दम्भादिभिराक्रान्तत्वम् । दम्भग्रहगृहीताश्चेन पुरुषार्ययोग्या भवन्तीति
१. 'हसंग्रह' क. पाठः. २. 'काचि' ग. पाठः. ३. 'प्रादर्शि । स' क. पाउ: