SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ प्रबोधचन्द्रोदये सव्याख्ये कार्य जायत इत्यसत्कार्यवादिनां गलगर्जनम् । तन्निराकरोति-उन्मीलतीति । नीरूपस्यासतः सामग्रीसम्बन्धाधनुपपत्तेः कारणात्मना विद्यमान. मेव कार्य द्रष्ट्रादिसहकृतसामग्रीसम्बन्धादभिव्यज्यत इत्यर्थः । स्वरूपादप्रच्युतस्यैव कारणस्यासत्यनानाकारावभासो हि विवर्त इत्येवंविधविवर्तवादावलम्बनेनोदाहरणमुदाहरति - मध्याह्नार्केति । यथा खलु लोके कस्यचित् पान्थस्य भागीरथीं गन्तुं प्रस्थितस्य निदाघकालतिग्मद्युतिदीधितिदीतस्यातिपिपासापरिम्लानमनसो द्युमाणिकिरणकिरणितमिरिणतरमसृणधरणिमण्डलमालक्ष्योद्यद्बलवदनिलौघनुद्यमानसलिलसन्दोहसम्भ्रान्तिः संजायते, एवमेवास्य प्रपञ्चस्य दृष्टादृष्टनष्टस्वभावस्य भावाभिमानपरिभ्रान्तिरपीति भावः । एवं तावत् तटस्थलक्षणमभिधाय विषयादिकं सम्भावयन्नस्य निरुपाधिकं स्वरूपं दर्शयितुमाह - यत्तत्त्वमित्यादिना । यस्य तत्त्वं पारमार्थिक रूपमिति यावत् । तदेव ज्ञातं सदनन्यसाधारणतया विषयो भ. वतीति भावः । विदन्तीति विद्वांसः तेषामपरोक्षीकृततत्त्वानामित्यर्थः । ननु चेतनान्तरस्याप्रत्यक्षत्वादपरोक्षीकृतोऽनुपपन्न इति चेद्, नायं दोषः । तद्भेदे प्रमाणाभावाद्, अनङ्गीकाराचेति । ननु तेषां किं भवतीत्याकाङ्क्षायामाह -निमीलतीति । अस्य संसारस्य सता सहान्वयेन व्यतिरेकेण शून्य तया वा निरूपणयोग्यं रूपं न लभ्यत इत्येवमन्वयव्यतिरेकामावपरिहारात् सकलसंसारानर्थनिवृत्तिः प्रयोजनं भवतीत्यर्थः । पुनःशब्दोऽत्र निःश्रेयसयोग्याधिकारसामग्रीसम्पत्त्यानन्तर्यप्रदर्शनार्थः । सकलभ्रमाधिष्ठानभूतात्मतत्त्वयाथात्म्यज्ञानादारोपितद्वैतभ्रमनिवृत्तिरित्यत्र सम्प्रतिपन्नं दृष्टान्तमाह - स्रग्भोगीति । स्रजि भोगी स्रग्भोगी । स्रङ्माला । भोगी भुजङ्गः । तस्य भोगः शरीरम् । तेनोपमीयत इति स्रग्भोगिभोगोपमम् । यथा खलु स्रगापरोक्ष्येणारोपितभोगिभ्रमनिवृत्तिः, तथैव तत्त्वज्ञानाद् द्वैतप्रपञ्चोऽपि निमीलति । बाध्यत इत्यर्थः । एवं तावदनर्थनिवृत्तिरूपपुरुषार्थताभिहिता । इदानीमानन्दाविर्भावरूपपुरुषार्थतामाह --- सान्द्रेति । सान्द्रं बहुलम् । अनवच्छिन्नानन्दस्वरूपमित्यर्थः । तदेव ज्ञाततया पुरुषार्थों भवतीति भावः । तदेव विशिनष्टि -- अमलमिति । अविद्यादिमलरहितमित्यर्थः । चिद्रूपं १. 'नं निरा' ख. पाठः, २. 'णं विदन्तीति' क. पाठः. ३. 'तसत', ४. 'न्वयव्य' ग. पाठः. ५. 'तामभिधायेदानी', ६. 'पत्वमङ्गी' ख. पाठः,
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy