SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ पंछोऽधः यज्ञविधी विचिन्त्यपुमानकर्ता कथमीश्वरो भवेत् क्रिया भवोच्छेदकरी न वस्तुधीः। कुर्वन् क्रिया एव नरो भवच्छिदः शतं समाः शान्तमना जिजीविषेत् ॥ १५॥ तन्मन्ये नातिप्रयोजनं भवत्याः परिग्रहेण । तथापि यदि कर्तारं भोक्तारं पुरुषं स्तुवन्ती कियन्तं कालमत्र वस्तुमिच्छसि, ततः को दोषः । एवं तावन्नित्यमुक्तपरमानन्दस्वरूपं परमेश्वरं प्रतिपादयत्युपनिषदित्युक्तम् । तत्र विरोध शङ्कते -विचिन्त्य पुमामकर्ता कषमित्यादिना। तत्र यदभाणि भूतेश्वरमित्यादिना, तन्न घटनामटतीत्याह -- अकर्ता कथमीश्वर इति । लोके तावद् राजादोनामनुग्रहादिव्यापारवतामेवेश्वरत्वं दृश्यते, न त्वक्रियावतां पर्वतादीनामतो न तवाभिलषितस्येश्वरत्वमिति भावः ! किश्च ज्ञानान्मुक्तिरित्यपि ते मनाराज्यमित्याह-क्रिया भवोच्छेदकरीति । क्रियैव मुक्तिहेतुरित्यत्रे शास्त्रं प्रमाणयति-कुर्वन् क्रिया इत्यादिना । यावज्जीवं श्रुतिचोदितत्वाच्चावश्यानुष्ठेयं कर्मवृन्दमिति भावः। उकंच "कुर्वन्नेव हि कर्माणि शतव जिजीविषेत् । इति मन्त्रोऽपि निश्शेष कर्माण्यायुरवासृजत् ।" इति ॥१५॥ यस्मादेवं कर्मणैव मुक्तिरिति निरणायि, तस्मादसङ्गकूटस्थाद्वितीयपरमेश्वरप्रणयिन्यास्तव परिग्रहेण प्रसाध्यप्रयोजनाभावादपरिग्राव भवतीति मन्येऽहमित्याह - तन्मन्ये इत्यादिना । ननु प्रमाणमृताध्ययनकर्तव्यताविधिपरिप्रापितोपनिषत् कथमुपेक्ष्येति चेदवाहथापीति । यदि त्वमात्मनो दुर्विलसितमसङ्गकूटस्थाद्वितीयपरमात्मपक्षपातमपहाय कर्मापेक्षितदेवतादिस्वरूपमभिष्टुवन्ती चेदम्मदानुकूल्यमाचरसि, तो कश्चित् कालमनुमोदामह इत्यर्थः ।। १. 'द ब्रह्मादी', १. 'त्रैव शा' बं. प. पाठः. - -
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy