SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १८१ षष्ठोरः । शान्तिः-ततस्ततः । श्रद्धा-ततस्तद्वचनमाकर्ण्य स्वस्ति विषयेभ्य इत्यभिधायावधीरिता मधुमती । शान्तिः - साधु साधु । इदानी क्व प्रस्थिता भवती। द्धा - आदिष्टाहं स्वामिना यथा विवेकं द्रष्टुमिच्छामीति । शान्तिः -तत् त्वरतां भवती। श्रद्धा-तदहं राजसन्निधिं प्रस्थिता । शान्तिः - अहमपि महाराजेनोपनिषदमानेतुमादिष्टा । तद् भवतु, स्वामिनियोगं सम्पादयावः । (हति निष्क्रान्ते ।) प्रवेशकः। मोक्षमपीत्यतो न कदाचिदपि बाहिरत्वं यथा भवति तथा निरूपणेन भाव्यमिति भावः । उक्तं च --- ___ "प्रत्यग्दृशां विमोक्षाय संसाराय पराग्दृशाम् । अपामार्गलतेवाय विरुद्धफलदो नृणाम् ॥" इति ॥ ७॥ स्वस्ति विषयेभ्य इति । यं कञ्चित् कामुकमासाद्य तद्विलोभनाय यथेष्टं गम्यतामित्यनुज्ञा दत्तेत्यर्थः ।। आस्तां तावदियं चिन्ता । अधुना किं व्यवसितं भवत्येति पृच्छति-इदानी क प्रस्थिता भवतीति । एवं तावद् विवेकनकाशं प्रेषिता पुरुषेण श्रद्धेत्युक्तम् । इदानीं 'नासूचितस्य प्रवेशः' इति न्यायाद् उक्तविशेषणोऽथ पुरुषः स्वयं प्रवर्तत १. भवितव्यमि' प. पाठः, २. 'दाय विठोभितं य' ग. पास,
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy