SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽङ्कः । शान्तिः अथ देवस्य मायायां कीदृशोऽनुग्रहः । ननु निग्रह इति वक्तव्ये कथमनुग्रहः शक्यते वक्तुम् । देवोऽपि हि सर्वानर्थबीजमियं माया सर्वथा निप्राति मन्यते । शान्तिः - यद्येवं कुतस्तहींदानीं राजकुलस्य स्थितिः । शृणु वत्से ! भा श्रद्धा · - S N नित्यानित्यविचारणा प्रणयिनी वैराग्यमेकं सुहृत् सन्मित्राणि यमादयः शमदमप्रायाः सखायो मताः । नन्वनादिभवपरम्परापरिलालिता खल्वियं माया अतो दुस्त्यजा, कथमेनां त्यक्ष्यति पुरुष इत्यभिप्रायेण पृच्छति अथ देवस्य मायायामिति ।। त्यादिना ॥ ननु निग्रह इति । यस्मान्मामेवाश्रित्याप्यनर्थत्रातमेवनभिजाता निरन्तरमापादयति, अतः समूलमेनामुन्मूल्य सुखीभवामीत्यभिप्रायो देवस्य । अतस्त्वच्चोद्यमपि अनुपपन्नमित्यर्थः ॥ १७५ पुरुषोद्यमस्तावदेवं भवतु, किन्तु विवेकाधीना एव खलु फलप्राप्तिः । अतो विवेकाद्यानुकूल्यं कथमिति मन्वाना पृच्छति यद्येवं कुतस्तहीं 1. ---- सर्वथा तावत् " सम्बोधनीय एवासौ सुप्तो राजेव वन्दिभिः । " इति न्यायादस्माभिरयमात्मा सम्यग्ज्ञानसम्पादनेन प्रबोध्य स्वाराज्येऽ भिषेक्तव्य इति कृतव्यवसाय एव राजा विवेक इत्याह--- शृणु वत्से इत्येवमादिना । प्रणयिनी भार्या । वैराग्यमेकं प्रधानं सुहृत् प्रत्युपकारनिरपेक्षतयोपकारपरमित्यर्थः । सम्पद्विपत्स्वपि तुल्यस्नेहाः सन्तः सन्मित्राणि यमादयः । आदिशब्देन नियमादयो गृह्यन्ते । शमदम 'बाभिजात मनभि' ग. पाठः.
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy