SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ प्रबोधचन्द्रोदये सम्पाख्ने मनः-क्वासि पुत्रक!। वैराग्यम्- (उपसृत्य) अहं भो! अभिवादये। मनः-वत्स! जातमात्रेण त्वया त्यक्तोऽस्मि । परिष्वजस्व माम्। वैराग्यम् - (तथा करोति)। मनः- वत्स! त्वदर्शनात् प्रशान्तो मे शोकावेगः । वैराग्यम् - तात! कोऽत्र शोकावकाशः । यतः, पान्थानामिव वर्मनि क्षितिरुहां नद्यामिव स्रोतसां मेघानामिव पुष्करे जलनिधौ सांयात्रिकाणामिव । संयोगः पितृमातृबन्धुतनयभ्रातृप्रियाणां यदा सिद्धो दूरवियोग एव विदुषां शोकोदयः कस्तदा ॥ वैराग्यमुत्पन्नमित्यर्थः । तत् तस्मात् । एतद् वैराग्यम् । सम्भावय सम्यग् भावय । अचञ्चलतया दायमेव सम्पादयेत्यर्थः ।। जातमात्रेणेति । मद्व्यापारासहिष्णुना त्वया परित्यक्तोऽहमित्यर्थः ॥ तात कोऽत्र शोकावकाश इति । अस्थाने महान् सम्भ्रम एवायमित्यर्थः ॥ अस्थानतामेव स्थापयति-यतः पान्थानामित्यादिना । पुष्करे योनि । सांयात्रिकाणी पोतवणिजाम् । दूरवियोग एवेति । अत्यर्थ नि. वितवियोग एव पित्रादिसंयोग इत्यर्थः । तदुक्तम् - "संयोगा विप्रयोगान्ताः पतनान्ताः समुच्छ्रयाः । भयान्ता निचयाः सर्वे मरणान्तं च जीवितम् ॥ यथा काष्ठं च काष्ठं च समेयातां महोदधौ । समेत्य च व्यपेयातां तद्वद् भूतसमागमः ॥" १. 'वो महायात्रिकाणां पो. पाठा.
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy