SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ मनः किन्तु, तव मुखशशधरदीधितिगलितैर्विमलोपदेशपीयूषैः । क्षालितमपि मे हृदयं मलिनं शोकार्मिभिः क्रियते ॥ २४ ॥ तदास्य शोकप्रहारस्य भेषजं प्रज्ञापयतु भगवती । सरस्वती - वत्स ! ननूपदिष्टमेव मुनिभिः । अकाण्डपातजातानामार्द्राणां मर्मभेदिनाम् । गाढशोकप्रहाराणामचिन्तैव महौषधम् ॥ २५ ॥ इति । पञ्चमोऽङ्कः । १६३ भगवति ! तव प्रसादादपास्त एव व्यामोहः | " मातापितृसहस्राणि पुत्रदारशतानि च । " ( " जायमानो हरेद् भार्यां वर्धमानो हरेद् धनम् । म्रियमाणो हरेत् प्राणान् नास्ति पुत्रसमो रिपुः || ” इत्यादिवचनात् । १) गतागतं कुर्वतां मात्रादीनां यस्मादियत्ता नास्ति, तत् तस्मादिह विद्युत्पातोज्ज्वलान् चञ्चलसौदामनीद्युतिवद् दृष्टनष्टस्वरूपान् सुहृत्सम्बन्धान् हृदि निवेश्य भूयो भूयो भावयित्वा सुखी भवेत्यर्थः ॥ २३ ॥ इत्यादिशास्त्रेण, तब प्रसादसलिलसन्दोहैः प्रक्षालितमप्यन्तःकरणमात्मापराधात् कलुषितमिव भातीत्यर्थः ॥ २४ ॥ आर्द्रस्य अभिनवस्य । निरर्गलं प्रवर्तमानस्य परवशदुःखत्रातस्ये त्यर्थः ॥ अकाण्डेति । अचिन्तितोपस्थितानाम् । आर्द्राणां बहलानाम् । मर्ममेदिनां मर्मच्छिदाम् । गाढशोकप्रहाराणां गाढं दृढं शोकलक्षणप्रहाराणाम् । अचिन्ता अननुस्मरणमेव । भैषज्यमित्यर्थः ॥ २५ ॥ १. 'वा' क. पाठ.. २. 'स्वा निर्वृतो भ', ३. 'भेषजमि' क. ङ. पाठः, W2
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy