________________
चतुर्थोऽङ्कः ।
१११
(आकाशे) अरे मूर्ख ! दुरुच्छेदः खल्वयं भवतो व्या
पारः । तथाहि
समारम्भा भग्नाः कति कति न वारांस्तव पशोः पिपासोस्तुच्छेऽस्मिन् द्रविणमृगतृष्णार्णवजले । तथापि प्रत्याशा विरमति न ते नापि शतधा विदीर्ण यच्चेतो नियतमानिग्रावघटितम् ॥ २० ॥ इदं च ते लोभान्धस्य चेष्टितं चेतसि चमत्कार मातनोति ।
यतः
लप्स्ये लब्धमिदं च लभ्यमधिकं तन्मूललभ्यं ततो लब्धं चापरमित्यनारतमहो लभ्यं धनं ध्यायसि । नैतद्वेत्सि पुनर्भवन्तमचिरादाशापिशाची बलात् सर्वग्रासमियं ग्रसिष्यति महालोभान्धकारावृतम् ॥ २१ ॥ अपिच
धनं तावल्लब्धं कथमपि तथाप्यस्य नियतो
व्ययो वा नाशो वा तव सति वियोगोऽस्त्युभयथा ।
आकाश इति लोभं लक्षीकृत्य ।
प्रत्याशेति । प्रतिविषयं लब्वव्यमेवेत्याशा अभिलाषो वर्धत इत्यर्थः । नापि शतधेति । सर्वतः समादित्सया व्याकुलीक्रियमाणमपि चेतो न विदीर्णमिति यत् तत् स्फुटं वज्रशिलाकल्पमित्यर्थः ॥ २० ॥
1
चमत्कारं समीचीनताम् ।
लपस्थे आगामिनि संवत्सरे । इदं धनं सम्प्रति लब्धम् । द्वित्रदिवसादर्वाक् लभ्यं च किञ्चित् । तन्मूललभ्यमिति । वाणिज्यादिना वर्धयित्वा । पुनरपीत्यनारतमजस्रम् | आशापिशाचीत्यभिलाषानल्पिका तया गृहीतत्वात् तद्द्वारेणान्तकः सर्वग्रासमेककबलं निर्दयं सिप्यतीत्यर्थः ॥ २१ ॥
$2