SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽः। १२५ वस्तुविचारः- (उपसृत्य) जयतु जयतु देवः। एष वस्तुविचारः प्रणमति। राजा-इहोपविश्यताम् । वस्तुविचारः-उपविश्य) देव ! एष ते किङ्करः सम्प्राप्तः। तदाज्ञयानुगृह्यताम् । राजा-महामोहेन सहास्माकं संप्रवृत्तः सङ्ग्रामः। तदत्र कामस्तस्य प्रथमो वीरः। तस्य च प्रतिवीरतयास्माभिर्भवानेव निरूपितः। वस्तुविचारः- धन्योऽस्मि । येन स्वामिनाहमेवं स. म्भावितः । राजा - अथ कया शास्त्रविद्यया भवान् कामं जेष्यति । वस्तुविचारः - आः पञ्चशरः कुसुमधन्वा जेतव्य इत्यत्रापि का शस्त्रग्रहणापेक्षा । पश्य, दृढतरमपिधाय द्वारमारात् कथञ्चित् स्मरणविपरिवृत्तौ दर्शने योषितां वा। परिणतिविरसत्वं देहबीभत्सतां वा प्रतिपदमनुचिन्त्योन्मूलयिष्यामि कामम् ॥ ११ ॥ प्रथमो वीरः प्रधानो योद्धा । भवानेवेति । वस्तुविचारेणैव कामोन्मूलनं कर्तुं शक्यत इत्यर्थः । द्वारं श्रोत्रादि नव । आरात् दूरादेव । विषयपरिहाण्या द्धतरमपिधाय संयम्येत्यर्थः । कथञ्चिदिति । प्राणायामादिबहुप्रयत्नेन । ननु 'चञ्चलं हि मनः कृष्णे'ति वचनात् सहसा प्रवर्तमानस्य मनसश्चक्षुषो वा कथं निरोध इति शङ्कते - स्मरणेति । स्वैरसञ्चारानुरोधेन शास्त्रार्थानुस्मरणवैपरीत्येन विषय एव प्रवृत्तौ । मनोनिरोधनोपायमाह-परिणतीति । फल
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy