SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ९२ प्रबोधचन्द्रोदये सव्याख्ये आवासो लयनं मनोहरमभिप्रायानुकूला वणिङ् नायों वाञ्छितकालमिष्टमशनं शय्या मृदप्रस्तराः । श्रद्धापूर्वमुपासिकायुवतिभिः क्लुप्ताङ्गदानोत्सवक्रीडानन्दभरं व्रजन्ति विलसज्ज्योत्स्नाङ्कुरा रात्रयः॥९॥ करुणा-सहि! को एसो तरुणतरताळतळपळ्ळवो ळम्बन्तकसाअपिसङ्गचीरचीवरो सचूडमुण्डिअमुण्डवेसो इदो जेव्व अडिअच्छदि । शान्तिः -- सखि ! बुद्धागम एषः। भिक्षः-- (आकाशे) भो भो उपासकाः! भिक्षवश्व श्रूयतां भगवतः सुगतस्य वाक्यामृतम् । (पुस्तकं वाचयति ।) पश्याम्यहं दिव्येन चक्षुषा लोकानां सुगतिं दुर्गतिं च । क्षणिकाः सर्वे संस्काराः। नास्त्यात्मा स्थायी । तस्माद् भिक्षुषु लयन हर्म्यतलम् । अभिप्रायानुकूला अभिमतभावसदृशाचरणा इत्यर्थः । शय्याः सोपबर्हणकशिपुप्रभृतयः । मृदुप्रस्तराः मृदुलतरास्तरणास्तीर्णाः । श्रद्धापूर्व प्रयोजनान्तरनिरपेक्षम् । उपासिकायुवतिभिरेतदर्शनदीक्षिताभिः । अङ्गदानोत्सवः परिरम्भमविभ्रमः । ज्योत्स्नाडुरं कौमुदीकन्द(मि? लि तम् | ज्योत्स्नोत्करा इति वा पाठः । तत्पक्षे ज्योत्स्नोत्करः कौमुदीकूटम् । लयनमाश्वासनमिति केषाञ्चिद् पक्षः। वपिनार्यों वेश्याः। उपासिकायुवतिभिः । उपासिका इति सिद्धान्तरुचयो दीक्षिता उच्यन्ते । उपासिकाश्च युवतयश्चेति कर्मधारयः ॥ ९॥ करुणा । सखि ! क एष तरुणतरतालतरुपल्लवो लम्बमानकषायपिशङ्गचीरचीवरः सचूडमुण्डितमुण्डवेष इत एवाभिगच्छति । सुगतिः विहिताचरणनिमित्ता । दुर्गतिरितराचरणात् । संस्काराः
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy