SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयोऽङ्कः। (ततः प्रविशति शान्तिः करुणा च ।) शान्तिः-(सासम्) मातः! मातः! क्वासि । प्रतिवचनम् । मुक्तातङ्ककुरङ्गका वनभुवः शैलाः स्खलद्वारयः पुण्यान्यायतनानि सन्तततपोनिष्ठाश्च वैखानसाः। यस्याः प्रीतिरमीषु साद्य भवती चण्डालवेश्मोदरं नीता गौः कपिलेव जीवति कथं पापण्डहस्तं गता ॥१॥ एवं तावत् प्रतिकूलामकुलजामित्यादिना श्रद्धाकर्षणाय मिथ्याशिनियुक्ता महामोहेनेत्युक्तम् । इदानीं तु मिथ्याइष्टिवलेन पाषण्डभूयं प्रासा अद्धति वज्रपातोपमं वचनमाकर्ण्य जातसम्भ्रमा शान्तिः कथं नु नामाचारित्रा भविष्यति मन्माता श्रद्धेत्याकुलाशया तावदसदायमेष्वेव तदन्वेषणाय करुणया सह प्रवर्तत इत्येतदाह -ततः प्रविशतीत्यादिनीं । शान्तिर्नाम इन्द्रियोपरतिः । करुणा दुःखिविषया कृपा । मुक्तो विगत आतको व्याधिः (येषां) तथाविधाः कुरङ्गीः सारङ्गा यासु वनभूमिषु तास्तथा । स्खलद्वारयः पतनिझराः । वैखानसाः वानप्रस्थाः। अमिहोत्रादितपःप्रधाना इत्यर्थः । श्वपाकालयं गतेव धेनुः न जीवतीत्यर्थः ॥१॥ १. 'त्यभाणि ।', २. 'नी मि', ३. 'मुपश्रुत्यासहमाना सञ्जात' क. पाठः. ४. 'यं ना' ख. घ. पाठः. ५. 'तेत्या' क. पाठः. ६. 'ना। मु' क. ग. पाठः. __ "रोगः पाप्मा ज्वरो व्याधिर्विकारो दुःखमामयम् । यक्ष्मातहगदावाधाः शन्दाः पर्यायवाचकाः ॥" इति (येषा) तथाविधकरणकाः सा' क. पाठः. ८. 'काः' ख. प. पाठः. १. 'ता धेस. पाठः.
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy