SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ सर्गः] विजयदेवसूरि-माहात्म्यम् अभूवन् जसवन्तस्य पुत्रा एते षडुत्तमाः । षण्मुखमुखाकारा विराजन्ते जयोदयाः ॥२१॥ सामलः १ सुरताणश्च २, श्रीसहस्रमल्लो ३ ऽपि च । वर्षी ४ पाचा ५ तथा पत्ता ६ नामतश्च यथाक्रमम् ॥२१९॥ युग्मम् । अविषादः सदा सादाः शोभाः शोभाधनाश्रयः । जगस्तृतीय आभान्ति जयराजसुता अमी॥ श्रीमज्जेसाभिधस्याथ तृतीयस्तनयोऽवति । मत्र्येषु जयमल्लोऽयं जयमल्लमतल्लिका ॥२२१॥ श्रीमन्नयनसिंहाख्यः सुन्दरः सुन्दरो नृणाम् । आसा नरहरः सन्ति जयमल्लसुता इमे ॥२२२॥ एभिः पुत्रैः शुभैर्दीप्तो भ्रातृव्यैश्च पुरोदितैः। युतोऽन्यपरिवारेण जयमल्लोऽत्र शोभते ॥२२॥ राजसिंहमहाराजः प्रसन्नहृदयोऽन्यदा । श्रीसुवर्णगिरे राज्येऽभ्यषिश्चज्जयमल्लकम् ॥२२॥ तत्रान्यत्र ततो धाभ्यां सर्वत्र मरुमण्डले । एवं क्रमेण साम्राज्यश्रियमीष्टे स भाग्यवान् ॥ कुमारपालभूपाल इव स व्यलसत् श्रियः । दानेन जिनधर्मण दययाऽद्भुतया भृशम् ॥२२६॥ श्रीमत्सुवर्णगिर्यादिद्रङ्गशत्रुञ्जयादिषु ।। चैत्योद्धारविधानेन यात्रया च प्रतिष्ठया ॥२२७॥ युग्मम् । एवमेतानि वाक्यानि कुर्वन् षडपि सम्पति। बोभुज्यते स साम्राज्यं जयमल्लश्च वर्तते ॥२२८॥ आह्वयज्जयमल्लोऽयं विवंदिषुरथाऽन्यदा । विजयदेवसूरीन्द्रं श्रीमदीडरपत्तनात् ॥२२९॥ । विजयदेवसूरीन्द्रस्तदाहृतस्ततोऽचलत् । विजयसिंहमूरीशसंयुतः समहोत्सवः ॥२३०॥ विहरन्तौ क्रमात्सूरी गुरुशिष्यसुखप्रदौ । श्रीमच्छिवपुरीपार्थे समाजग्मतुरुत्सवात् ॥२३॥ आसीदवसरेऽथास्मिन् पुंजा पुंजातिपुङ्गवः । प्राग्वाटान्वयसत्पद्मप्रकासनदिवाकरः ॥२३॥ तेजपालः सुतस्तस्य सत्पुत्रिभिरन्वितः । वस्तुपाल-वर्धमान-धर्मदासैविलासिभिः ॥२३॥ वसतिप्रिय ऋद्धीनां जनानां स्वामिनामपि । श्रीमच्छिवपुरीनाम्नि नगरे नगरोत्तरे ॥२३४॥ –त्रिभिविशेषकः । अर्बुदाचलसत्तीर्थेऽभवत्मासादकारकः । श्रावको विमलो नाम विमलो विमलैर्गुणैः॥२३५॥ चतुरजिनागारकारको मारिवारकः । अभूद् राणपुरे ख्यातो धरणो धरणो नृणाम् ॥ इत्यादीनां प्रसिद्धानां श्राद्धानामतुलां तुलाम् । तेजपालो दधानोऽयं विधत्ते सुकृतं सदा॥ -त्रिभिर्विशेषकम् । यस्य दानपराभूता जग्मुः कल्पद्रवो दिवि । तेजपालस्तु कल्पद्रुर्भाति वाञ्छितदो भुवि ॥२३८॥ २२५-तत्र सुवर्णगिरौ अन्यत्र स्थिराद-सत्यपुरादिषु । ततस्तदनन्तरं धात्र्यां भूमौ सर्वत्र मरुमण्डले साम्राज्याश्रय इत्यत्र अधीगर्थदयेशामिति केवलं सम्बन्धत्वेन विवक्षिते कर्मणि षष्ठी, सम्बन्धस्य अविवक्षयां; विवक्षिते च कर्मणि द्वितीयाबहुवचनं वा ।
SR No.010676
Book TitleVijaydev Mahatmyam
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samiti
Publication Year1928
Total Pages140
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy