________________
श्रीवल्लभोपाध्यायविरचितं दानैर्यस्य पराभूताः मस्रवद्भिः रात्सदा । असूयया हि माताः सवन्त्यद्यापि सप्तधा ॥७१॥ क्षिपन्ति मस्तके रेणून् सहन्ते हातपादेकर । लभन्ते नैव दातृत्वं सोऽभूद्दाघुत्तमो भुवि ॥७२॥ अथायाद्विहरंस्तत्र विजयदे सद्गुरुः । सहजूप्रमुखाः श्राद्धा अपि तं वन्दितुं गताः ॥ ७३ ॥ अभिवन्द्योत्सवं कृत्वाऽन्तरा नगरमानयन् । विजयदेवसूरीन्द्रं श्रावकास्त उपाश्रये ॥ ७४ ॥ (अभिवन्द्योत्सवं कृत्वाऽन्तरा नगरमानयत् । विजयदेवसूरीन्द्रं सहजः स उपाश्रये-पाठान्तरम्) धर्मोपदेशमाकर्ण्य नत्वा चोत्थाय सोऽकरोत् । पुष्पाणीव सुरूप्याणि महाजनकरास्पदे ॥७॥ अथान्यदा समुत्पबविवेकाधिकतेरितः । इति व्यज्ञपयद्भक्त्या सहजूः श्रावको गुरुम् ॥७६॥ इतीति किं तदाहजानासि यं स्वं शिष्यं सर्वांगीणगुणाश्रयम् । श्रीगुरो प्रापयद्राक्तं वर्याचार्यपदश्रियम् ॥
जयदेवरीन्द्रस्ततः पाहेति मति । अस्मिन् कायें करिष्यामि ध्यानमभ्युदयावहम् ॥७८॥ ततस्तं सहजः माह प्रयतस्व गुरो द्रुतम् । ध्यानार्ह वीक्ष्यते वस्तु यत्तद् ब्रूहि नयामि तत् ॥७९॥ अस्मिन्नवसरे श्रीमत्साबलीग्राम उत्तमः । वर्तते सावली तस्य प्रबलीष्टे महीपतिः ॥८॥ परीक्षककुलव्योमव्योमरत्नसमद्युतिः। पुंरत्नं रत्नसिंहारव्यः श्रेष्ठी वसति विश्रुतः ॥८॥ अनेकजीवहिंसाया निवारणकृतोचमः । रत्नसिंहोऽलिखत्पत्रं सूर्याहानाय हर्षितः ॥४२॥ तद्यथा-स्वस्तिश्रोशोभितं शश्वत्रत्वा श्रीपरमेष्टिनम् ।
ईडते पण्डिता यत्स्वस्तद्भातीडरसत्पुरम् (-पत्तनमिति वा पाठः)॥८॥ विजयदेवसूरीन्द्रं वसन्तं तत्र साम्पतम् । प्रणत्य रत्नसिंहोऽयं श्राद्धो विज्ञपयत्यथ ॥८॥ श्रीपूज्यराज साधन्तश्रीसमाजविराजितः । साबलीग्राममागच्छ सर्वजीवहिताय हि ॥८॥ तं हठात् तेषु प्रक्षिपन्तीति भावः । विष्टिराजूरित्यपरः । यद्यप्याजूनरके हठात् क्षेपस्य नाम, तथाप्यत्र सामान्यविशेषयोरभेदेन विवक्षणात् अन्यत्रापि हठात्क्षेप नाम न दुष्टम् ।
७१-सप्तधा सप्तभिः प्रकारैः।।
८०-सा सप्ताङ्गराज्यलक्ष्मीस्तया बलते प्राणितीत्येवं शीलः सावली । सप्ताङ्गराज्यलक्ष्मीसमृद्ध इत्यर्थः । बल प्राणने भ्वादिरात्मनेपदी । अत एव प्रबली प्रकृष्टं षविधत्वात् बलं सैन्यं प्रबलं तदस्यास्तीति प्रबली । अत इनि ठनौ इति । इनिः षड्विधसैन्ययुक्त इत्यर्थः । महीपतिः राजा तस्य साबलीप्राम्यस्य ईष्टे राज्यं करोतीत्यर्थः । तस्येत्यत्र आधिगर्थदयेशां कर्मणीति शेषत्वेन विवक्षिते कर्मणि षष्ठी । अत्र शेषो नाम कर्मण अविवक्षासम्बन्ध इत्यर्थः । वतः शेषस्य सम्बन्धस्य भावः शेषत्वं सम्बन्धत्वमित्यर्थः । तेन विवक्षिते कर्मणि षष्ठी ।
८५-साधन्तानां साधूनां श्रीः शोभा तस्याः समाजेन समातेन विराजितः साधन्तश्रीसमाजविराजितः ।