SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ १०२ श्रीवल्लभोपाध्यायविरचितं [ पञ्चदशः तपांस्येतादृशान्येवमनेकान्यकरोद्गुरुः । तद्विधौ पुनरद्यापि तस्याद्यो दिवसोऽसति ॥२४॥ अद्य यावद्गणाधीशोऽभ्यतपदुस्तपं तपः । एतादृशोऽस्त्यभिप्रायश्चिरायास्य च तत्कृतौ ॥२५॥ जीर्णोद्धाराजरत्तीर्थाऽजरचैत्यादिकं भवेत् । तपो लाभोपमं तर्हि तद्वर्षेऽल्पं तपोऽस्तु चेत् ॥२६ कस्यचिन्महतो मन्त्रिजयमल्लादिकस्य हि । विज्ञप्तिकरणादेव नान्यथा तत्तपोऽल्पता॥ युग्मम् । क्रियात्युग्रतया साक्षादवतीर्णो धनो मुनिः । सन्दिहन्तीति यं वीक्ष्य कवयो यं कलौ किल ॥ आनन्दविमलसूरिद्वितीयोऽयमभूद्गणे । नैवमेषोऽधिकस्तस्मादित्यन्ये ब्रुवते बुधाः ॥२९॥ तदाह-क्रियोद्धारः कृतस्तेन नैतादृक्ष कृतं तपः । महातपा इति ख्यातं नाप्तं च बिरुदं भुवि ॥ इति हेतुत्रयाधिक्यं शोभतेऽस्मिनहर्निशम् । यदत्रान्यगुणाधिक्यमस्ति वक्तुं न तत्क्षमः ॥३१॥ -त्रिभिर्विशेषकम् । क्रियायास्तपसश्चास्य पारं वक्तुं कदापि हि । शक्नुवन्ति कवीन्द्रा नो बृहस्पतिसमा अपि ॥३२॥ इत्युत्तमं श्रीविजयादिदेवसूरिस्तपो दुस्तपमातनोत्तत् । श्रीवल्लभः पाठक एवमाख्यत् कर्तुं न शक्तोऽन्यजनो यदीदृक् ॥३३॥ इतिश्री श्रीबृहत्खरतरगच्छीय श्रीजिनराजसूरिसन्तानीयपाठक श्रीज्ञानविमलशिष्य श्रीवल्लभोपाध्यायविरचिते श्रीमत्तपागच्छाधिराज पातशाह श्रीअकबरप्रदत्तजगद्गुरुविरुदधारक श्रीहीरविजयसूरीश्वरपट्टालंकार पातिशाहि श्रीअकबरसभासंलब्धदुर्वादि जयवाद भट्टारक श्रीविजयसेन सूरीश्वरपट्टपूर्वाचलसहस्रकरानुकारि पातिशाहि श्रीजिहांगीरप्रदत्तमहातपाविरुदधारि श्रीविजयदेवसूरीश्वरगुणवर्णनप्रबन्धे श्रीमद्विजयदेवमाहात्म्यनानि महाकाव्ये श्रीविजयदेवसूरिकृततपोवर्णनो नाम पञ्चदशः सर्गः ॥१५॥ HEART:- - २४-असगतिदीप्त्यादानेषु भ्वादिरुभयपदी। २५-अस्य श्रीविजयदेवसूरेः । तत्कृतौ तपोविधाने । एतादृशोऽभिप्रायोऽस्ति । २७-चेत्तपोलाभोपमं जीर्णोद्धाराऽजरत्तीर्थाऽजरबैत्यादिकं भवत्तेहि तद्वर्षे कस्यचिन्महतो मन्त्रिजयमल्लादिकस्य विज्ञप्तिकरणादेव अल्पं तपोस्तु । अन्यथा तत्तपोऽल्पता तस्य श्री. विजयदेवसूरेस्तपोऽल्पता तपसोऽस्पत्वं नान्यथा नान्येन प्रकारेणेत्यर्थः ।
SR No.010676
Book TitleVijaydev Mahatmyam
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samiti
Publication Year1928
Total Pages140
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy