SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । भूयस्तत्प्रकृतं कृतं च शिथिलक्षितैकदोर्लेखया तन्वङ्गचा न तु पारितः स्तनभरो नेतुं प्रियस्योरसः ॥' अत्र मानस्योदयः । प्रशमो यथा ८६ - 'दृष्टे लोचनवन्मनाङ्मुकुलितं पार्श्वस्थिते चक्रवन्यग्भूतं बहिरासितं पुलकवत्स्पर्श समातन्वति । atataन्धवदागतं शिथिलतां संभाषमाणे ततो मानेनापसृतं हियेव सुदृशः पादस्पृशि प्रेयसि ||' अत्र मानस्य प्रशमः । संधिर्यथा 'उत्सिक्तस्य तपः पराक्रमनिधेरभ्यागमादेकतः सत्सङ्गप्रियता च वीररभसोत्फालश्च मां कर्षतः । वैदेहीपरिरम्भ एष च मुहुश्चैतन्यमामीलय नानन्दी हरिचन्दनेन्दुशिशिरः स्निग्धो रुणच्यन्यतः ॥' अत्रावेगहर्षयोः संधिः । शबलत्वं यथा— 'क्वाकायै शशिलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय मे श्रुतमहो कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति ॥' अत्र वितर्कौत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां शबलत्वम् । विविधमाभिमुख्येन स्थायिधर्मोपजीवनेन स्वधर्मार्पणेन च चरन्तीति व्यभिचारिणः । भावा इत्यनुवर्तते । संख्यावचनं नियमार्थं तेनान्येषा - मत्रैवान्तर्भावः । तद्यथा—दम्भस्यावहित्थे, उद्वेगस्य निर्वेदे, क्षुत्तृष्णादेनौ । एवमन्यदप्यूयम् ॥ अन्ये त्वाहुः -- एतावत्स्वेव सहचारिषु अवस्थाविशेषेषु प्रयोगप्रदर्शितेषु स्थायी चर्वणायोग्यो भवति ॥ १. 'शशलक्ष्मणः' इत्यन्यत्र. ·
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy