SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् । तत्रार्थशक्तिमूलो व्यङ्गयो रसः पदे यथा'उत्कम्पिनी भयपरिस्खलितांशुकान्ता ते लोचने परिभृशं कुपिते वहन्ती । - तीक्ष्णेन दारुणतया सहसैव दग्धा . धूमान्धितेन दहनेन न वीक्षितासि ॥' अत्र ते इति पदेन स्मारितानामनुभवैकगोचराणां सातिशयविभ्रमाणां शोकव्यञ्जकत्वम् ॥ चारिसंयोजनोचितस्थायिप्रतिपत्तिकस्य प्रतिपत्तुः स्थाय्यंशचर्वणाप्रयुक्त एवाखादप्रकर्ष इति । उदाहरणानि चैतल्लक्षणाप्रस्तावे दर्शयिष्यन्ते ॥ उत्कम्पिनीति। अत्र हि ते इति पदं रसमयत्वेन स्फुटमेवावभासते सहृदयानाम् । तथा हि-वासवदत्तादाहाकर्णनप्रबुद्धशोकनिर्भरस्य वत्सराजस्येदं परिदेवितवचनम् । तत्र च शोको नाभेष्टजनविनाशप्रभव इति तस्यास्य जनस्य ये भ्रूक्षेपकटाक्षादयः पूर्व रतिविभावतामवलम्बन्ते स्म त एवात्यन्तविनष्टाः सन्त इदानीं स्मृतिगोचरतया निरपेक्षत्वभावप्रमाणं करुणमुद्दीपयन्तीति स्थिते । ते लोचने इति तच्छब्दस्तल्लोचनगतवसंवेद्याव्यपदेश्यानन्तगुणगणस्मरणाकारद्योतको रसस्यासाधारणनिमित्ततां प्राप्तः । तेन यत्किचिच्चोदितं परिहृतं च तन्मिथ्यैव । तथा हि । चोद्यम्-प्रक्रान्तपरामर्पकस्य तच्छब्दस्य कथमियति व्यापारः । उत्तरम्-रसाविष्टोऽत्र परामृष्टेति । तदुभयमनुत्था[प]नोपहतम् । यत्र ह्यनुद्दिश्यमानधर्मान्तरसाहित्ययोग्यधर्मयोगित्वं वस्तुनो यच्छब्देनाभिधाय तद्बुद्धिस्थधर्मान्तरसाहित्यं तच्छन्देन निर्वाह्यते । तत्र पूर्वप्रकान्तपरामर्शकत्वं तच्छन्दस्य । यत्र तु निमित्तोपनतस्मरणविशेपाकारसूचकत्वं स घट इत्यादौ तत्र का परामर्शकथेति ॥ उत्कम्पिनीत्यादिना तदीयभयानुभावोत्प्रेक्षणं मया अनिर्वाहितप्रतीकारमिति शोकावेगस्य विभावतेति सातिशयविभ्रमैकायतनरूपे अपि लोचने विधुरे कांदिशीकतया निर्लक्ष्ये क्षिपन्ती व माता क्वासौ चार्यपुत्र इति तयोर्लोचनयोस्तादृशी चावस्थेति सुतरां शोकोद्दीपनम् । तीक्ष्णेनेति । तस्यायं खभाव एव किं कुरुतां तथापि च धूमेनान्धीकृतो द्रष्टुमसमर्थ इति, न तु सविवेकस्येदृशानुचितकारित्वं संभाव्यत इति स्मर्यमाणं तदीयं सौन्दर्य मिदानी सातिशयशोकावेशविभावतां प्राप्त इति तेशब्दे सति सर्वोऽयमर्थो नियूंढः । यथा वा-'झगिति कनकचित्रे तत्र दृष्टे कुरङ्गे रमसविक १. 'निरपेक्षभावत्वप्राणं' लोचने. २. 'स्थितम्' स्यात्. ३. 'केनचित्' लोचने.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy